SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ७४२ [ संयतीयनाम Mall II अष्टादशfoll मध्ययनम् ||oll Mall ell llel || Moll ||oll llll I6I द्विचत्वारिंशत्सहस्र-वर्षायुष्कस्य तस्य च । दुस्सहा जज्ञिरे तत्र, वेदनाश्छेदनादिभिः ।। ३०६ ।। स्वकर्मणां फलमिति, क्षममाणस्य तस्य ताः । तत्रैत्य प्राग्भवपिता-ऽशमयञ्चमराधिपः ।।३०७।। राज्ये निवेश्य तनयं, बलोऽपि भ्रातृशोकतः । भूमीभुजां षोडशभिः, सहस्रः परिवारितः ।।३०८।। परिव्रज्यां जयधर-गणाधीशान्तिकेऽश्रयत् । तपश्च तीव्र तत्वाऽऽयु:-प्रान्तेऽभूद्वासवोऽच्युते ।।३०९।। (युग्मम्) जीवोऽथानन्तवीर्यस्य, निरयानिर्गतस्ततः । वैताढ्ये भरतस्यास्य, पुरे गगनवल्लभे ।। ३१०।। खेचराधिपतेर्मेघ-वाहनस्याङ्गजोऽभवत् । मेघनादाभिधः प्राप्त-यौवनो राज्यमाप्य च ।। ३११ ।। साधयामास वैताढ्य-श्रेण्यौ द्वे अपि स क्रमात् । विभज्य च ददौ देशा-नशेषानङ्गजन्मनाम् ।। ३१२।। नन्तुं शाश्वतचैत्यानि, गतं तं नन्दनेऽन्यदा । तत्रायातोऽच्युताधीशः, प्रेक्ष्य प्राबुबुधन्मुदा ।। ३१३।। नाम्नामरगुरुस्तत्र, चारणर्षिस्तदाऽऽययो । प्राव्राजीत् खेचराधीश-स्ततोऽसौ तस्य सन्निधौ ।।३१४ ।। स व्रतं पालयंस्तीव्र, सहमान: परिषहान् । विपद्यानशनेनान्ते-ऽच्युतसामानिकोऽभवत् ।। ३१५ ।। इतश्च जम्बूद्वीपेऽस्ति, प्राग्विदेहविभूषणे । विजये मङ्गलावत्यां, नगरी रत्नसञ्चया ।।३१६।। तत्र क्षेमङ्कराह्वोऽभू-द्विश्वक्षेमङ्करो नृपः । रत्नमालेति तस्यासी-न्महिषी गुणमालिनी ।। ३१७ ।। द्वाविंशतिसमुद्रायुः, प्रपूर्व प्रच्युतोऽच्युतात् । जीवोऽपराजितस्याथ, तस्याः कुक्षाववातरत् ।। ३१८ ।। ||ll || Isll ||Gl ||Gll leel Mell Mell llell Isl || alll ७४२ llel llel lal www.jainelibrary.org in Education International For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy