________________
ISM
उत्तराध्ययन
सूत्रम् ७४१
is संयतीयनाम Isl
अष्टादशliol मध्ययनम्
Isi Isi
lish
||oll llol Isl
oil
llol
विचिकीत्सामनालोच्य, विपन्ना साऽन्यदा ततः । दमितारेर्मत्सुतस्य, तनया त्वमभूः शुभे ! ।।२९४ ।। तस्यास्ते विचिकित्सायाः, फलमेतदुपस्थितम् । स्वल्पोऽपि खलु धर्मस्य, कलङ्को भूरिदुःखदः ।।२९५।। श्रुत्वेति जातवैराग्या, कनकश्रीजंगी हरिम् । महाभागाऽनुजानीहि, भवाद्धीतां व्रताय माम् ।।२९६ ।। ततः स विस्मित: स्माह, 'शुभामेहि शुभाशये । स्वयम्प्रभजिनोपान्ते, प्रव्रजेस्तत्र चोत्सवैः ।। २९७ ।। इत्युक्त्वा तां सहादाय, सबलः सबलानुजः । मुनिं प्रणम्य तं भक्त्या, जगाम नगरी निजाम् ।। २९८ ।। तत्र पूर्व प्रतिहरि-प्रहितैः खेचरेश्वरैः । भ्रातुष्पुत्रं युद्ध्यमानं, वीक्ष्याऽधावलो बली ।। २९९ ।। सीरं भ्रमयतस्तस्मा-द्धीताः सद्यो दिशोदिशम् । दमितारिभटा नेशु-र्गरुडादिव भोगिनः ।।३००।। गृहं गतोऽर्द्धचक्रित्वे-ऽथाऽभ्यषिञ्चि हरिनृपः । स्वयम्प्रभप्रभुस्तत्रा-ऽन्यदा च समवासरत् ।।३०१।। तं च श्रुत्वाऽऽगतं गत्वा, दमितारिसुतायुतः । साग्रजः प्रणमद्विष्णु-स्ततोऽश्रौषीच देशनाम् ।।३०२।। ततो हरिमनुज्ञाप्य, कनकश्रीमहोत्सवैः । जिनान्तिके प्रवव्राज, क्रमान्मुक्तिमवाप च ।। ३०३।। सीरिशार्ङ्गधरी तो, च, पुष्पदन्ताविवापरौ । चिरं राज्यमभुञ्जाता, सम्यक्त्वोद्योतशालिनौ ।।३०४ ।।
पूर्वलक्षाणि चतुर-शीतिमायुरथो हरिः । प्रपूर्व कर्मविवशः, प्रथमां पृथिवीं ययो ।।३०५।। १. शुभां नगरीम् ।
lol ||oll ||6
fell
Ifoll
||oll
lol
fol
11
||Gl
७४१
lel led
Ish
lisl
For Personal Private Use Only