________________
उत्तराध्ययन
सूत्रम् ७४०
is संयतीयनाम
अष्टादशमध्ययनम्
ilsil
ततो नतैः खेचरैन्द्रे-वृतो विष्णुः सहाग्रजः । गच्छन् स्वपूर्या कनक-गिरि पर्वतमैक्षत ।। २८३।। इहाद्रौ सन्ति चैत्यानि, तानि नत्वा व्रज प्रभो ! । तदेति खेचरैरुक्त-स्तझैत्यानि ननाम सः ।। २८४ ।। तत्र कीर्तिधरं साधु, तदैवोत्पन्नकेवलम् । वीक्ष्य नत्वा च सोऽश्रौषी-देशनां सपरिच्छदः ।। २८५।। बन्धूनां विरहस्तात-घातश्चाभूत्कुतो मम ? । अथेति पृष्टः कनक-श्रिया मुनिरदोऽवदत् ।। २८६ ।। धातकीषण्डभरते, शङ्खग्रामेऽभवद्वशा । श्रीदत्ताह्वाऽतीवदुःस्था, परौकःकृत्यजीविका ।। २८७।। श्रीपर्वते गता सत्य-यशसं मुनिमन्यदा । वीक्ष्यावन्दत सा दत्ता-शिषं तं चैवमब्रवीत् ।। २८८ ।। अहमत्यन्तदुःस्थास्मि, तत्किञ्चित्तादृशं वद । अत्रामुत्र च येनाहं, भवामि सुखिनी विभो ! ।। २८९।। साधुस्तस्यै ततो 'धर्म-चक्रवालं तपोऽवदत् । प्रारेभे तत्तपः सापि, तं प्रणम्य गृहं गता ।। २९०।। तन्महिम्ना शुभं भोज्यं, प्राप पारणकेषु सा । स्वगेहभित्तिदेशाच, पतितात्काञ्चनादिकम् ।। २९१ ।। उद्यापनं तपःप्रान्ते, सा विधायोत्तमं ततः । मासोपवासिनेऽत्रादि, ददौ सुव्रतसाधवे ।। २९२ ।। कृताहारात्ततः साधोः, श्राद्धधर्मं च साददे । दध्यौ चान्येधुरित्यस्मा-द्धर्माद्धावि फलं न वा ? ।। २९३।।
llall
lal
|lol
||oll
Isil
१. अष्टमं १ एकान्तरं चतुर्थ ३७ प्रान्ते अष्टम १ इति धर्मचक्रवालं तपः ।। अथवा प्रथम पठं १ तात एकान्तरोपवासाः ६० इति । प्रकारद्वयेन धर्मचक्रवालं, तत्र प्रथमप्रकारे
दिनसर्वाग्नं ८२ । द्वितीयप्रकारे १२३ ।।
७४०
lish
Jain Education Internal
For Personal & Private Use Only