________________
उत्तराध्ययन
सूत्रम् ७३८
||७ ||७॥ is संयतीयनाम isi अष्टादशGl
मध्ययनम्
Iel
161
||61 ||61
Mol
तनिशम्योल्लसद्रोम-हर्षा 'हल्लेखमाश्रिता । कथं द्रक्ष्यामि तं कान्त-मिति साऽचिन्तयश्चिरम् ।। २५८।। इङ्गितज्ञस्ततोऽवादी-त्तामेवमपराजितः । तं विश्वसुभगोत्तंसं, किं मृगाक्षि ! दिदृक्षसे ? ।।२५९।। कनकश्रीरथाचख्यौ, क्व नु मे तस्य दर्शनम् । प्राणिनां मन्दभाग्यानां, दुरापो हि धुसन्मणिः ।। २६० ।। ऊचेऽपराजितो मुञ्च, शुचं नलिनलोचने ! । विद्यया भ्रातृयुक्तं तं, त्वत्कृतेऽहमिहानये ।। २६१।। हर्षगद्गदगीरेवं, कनकश्रीरथावदत् । कलावति ! कुरुष्वाशु, वचः सफलमात्मनः ।। २६२।। स्वं स्वं रूपं ततः प्रादु-श्चक्रतुस्तौ जितामरम् । ऊचेऽपराजितस्तां चा-नन्तवीर्यो ह्यसौ शुभे ! ।। २६३।। मदुक्तमस्य रूपादि, दृशा संवादय स्वयम् । सापि प्रेक्षावती प्रेक्षा-मास तं निर्निमेषदृक् ।। २६४।। दमितारिसुता काम, कामेन दमिता ततः । अपाकृत्य त्रपां मान-मपमान्येति तं जगौ ।।२६५ ।। अद्ययावधुवानोऽन्ये, बहवो वीक्षिताः परम् । त्वां विना नारमत् क्वापि, मनोरम ! मनो मम ।। २६६ ।। तत्प्रसीद द्रुतं पाणी, गृहाणानुगृहाण मां । न हि जातु जनं रक्त-मुपेक्षन्ते भवादृशाः ! ।।२६७।। बभाषेऽनन्तवीर्योऽथ, यद्येवं तर्हि सुन्दरि ! । एहि यावः शुभापूर्या, ततस्तं सा पुनर्जगी ।। २६८।।
एष्याम्यहं कान्त ! किन्तु, कर्त्तान) पिता मम । प्रत्यूचे तां हरिस्मि-भैषीस्त्वं कातरे ! ततः ।। २६९।। १. उत्साहम् । तर्क वा ।।
||७ ||Gl ||७||
16
||sl
||
lol
lel 161
||
I6I
||
Mail
७३८
foll
lell
oll
lol in Ecationen
For Personal & Private Use Only
www.jainelibrary.org