SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ७३७ ial संयतीयनाम अष्टादश61 मध्ययनम् ततस्तावूचतुः स्वामी, स हि तोष्यो धनैर्घनैः । आभ्यां चेत् प्रियते तर्हि, ते लात्वा त्वं प्रगे व्रजेः ।। २४५।। ताभ्यामित्युदितो दूत-स्तद्दत्ते न्यवसदृहे । न्ययुञ्जातां राज्यभारं, सुधियौ धीसखेषु तौ ।। २४६।। प्रातश्च विद्यया चेटी-भूतो दूतमुपेयतुः । साग्रजोऽनन्तवीर्यो नौ, प्रेषीदित्यूचतुश्च तम् ।। २४७।। तत आदाय ते दूतो, वैताढ्यं मुदितो ययौ । दमितारेचोपनीय, प्रोवाचेति कृताञ्जलिः ।। २४८।। प्रभो ! ऽपराजितानन्त-वीर्या त्वद्वशवर्तिनौ । इमे ते चेटिके मह्य-मदत्तां प्राभृताय ते ।। २४९।। ते नट्यौ नाटकं कर्तुं, दमितारिरथादिशत् । अपूर्वदर्शनोत्को हि, विलम्बं नावलम्बते ! ।। २५०।। ततस्ते चक्रतुर्नाट्यं, पूर्वरङ्गादिपूर्वकम् । रसाशेषविशेषाढ्यं, विश्वविश्वैककार्मणम् ।। २५१।। प्रेक्षणीयं प्रेक्षणीयं, प्रेक्ष्य तत् क्ष्माधवः सुधीः । भूर्भुवःस्वस्त्रयीसारं, मेने तछेटिकाद्वयम् ।। २५२।। अथ नाट्यं शिक्षयितुं, स्वपुत्री कनकश्रियम् । दमितारिस्तयोविश्व-जैत्ररूपश्रियं ददौ ।। २५३।। अनन्तवीर्य गायन्त्यौ, रूपाद्यैरद्भुतं गुणैः । तामशिक्षयतां नाट्यं, ते मायाचेटिके ततः ।।२५४।। युवाभ्यां गीयते भूयः, कोयमित्यथ कन्यया । पृष्टे तयाब्रवीदेवं, मायाचेट्यपराजितः ।। २५५।। शुभापुरीप्रभू रूप-हत-कन्दर्पदर्पकः । परापराजितो भ्राता-ऽपराजितविभोर्लघुः ।। २५६।। गीयते जगतीगेयो-ऽनन्तवीर्याह्वयो ह्वयम् । युवा युवत्या स यया, न दृष्टः तजनिर्मुधा ! ।।२५७ ।। (युग्मम्) ७३७ For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy