SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ७३६ संयतीयनाम अष्टादशमध्ययनम् किरातीबर्बरीसज्ञ-चेटिकारब्धनाटकम् । अहमद्भुतमद्राक्षं, दुरापं द्युसदामपि ! ।। २३२।। (युग्मम्) तद्विना राज्यमप्येतत्, फल्गु भोज्यमिवाघृतम् । उक्त्वेति गगनेनागा-वारदर्षिः कलिप्रियः ।। २३३।। दूतोऽथानन्तवीर्याय, प्रहितो दमितारिणा । गत्वा शुभापुरीं नत्वा, साग्रजं तमदोऽवदत् ।।२३४।। विजयाद्धेऽत्र यत्सारं, दमितारेस्तदर्हति । चेट्यो नट्याविमे राज्य-सारे तस्मै प्रदेहि तत् ! ।। २३५ ।। उवाचानन्तवीर्योऽथ, यातु दूताऽधुना भवान् । त्वरितं प्रेषयिष्यामि, किञ्चिदालोच्य चेटिके ।। २३६ ।। तत: प्रयाते दूते तो, भ्रातराविति दध्यतुः । अयं हि विद्याशक्तयैव, भूपोऽस्मासु प्रभूयते ।। २३७।। तत्साधयामो विद्यास्ता, यास्तेन सुहृदार्पिताः । अविहस्तो रहस्तौ द्वौ, यावयमृशतामिति ।। २३८ ।। प्रज्ञप्त्याद्यास्तावदेत्य, विद्यादेव्योऽवदन्नदः । याः साधयितुमिष्टा वा-मायातास्ताः स्वयं वयम् ।। २३९ ।। प्राग्भवे साधितत्वाद्धि, नाऽधुना साधनेष्यते । युवां तदनुजानीत-मस्मान् सङ्क्रमितुं तनौ ।। २४०।। ताभ्यां चानुमताः सर्वा, विविशुस्तास्तदङ्गयोः । तासां वर्यां सपर्यां च, मुदितौ तौ वितेनतुः ।। २४१।। इतश्च प्रहितो दूतो, भूयोऽपि दमितारिणा । क्षिप्रमागत्य तावेव-मवदद्वदतां वरः ।। २४२।। दास्यौ दास्याव इत्युक्त्वा, युवाभ्यां प्रहिते न यत् । युवयोस्तदसुभ्योऽपि, ते प्रिये इति दृश्यते ! ।। २४३।। अथ चेद्वां प्रियाः प्राणाः, तत्ते प्रेषयतं द्रुतम् । अमर्षणः स हि प्राणानन्यथा वां हरिष्यति ! ।।२४४ ।। ७३६ || Jeel lroll For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy