SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् lell lel ISI संयतीयनाम अष्टादशमध्ययनम् ||oll ||sil Nell ७३५ si वसन्तेनेव माकन्दौ, यौवनेन विभूषितौ । भृङ्गीरिवाङ्गनादृष्टी-स्तावमोहयतां भृशम् ।। २२०।। भूपोऽन्यदा वाहकेल्या, गतः स्तिमितसागरः । स्वयम्प्रभाऽभिधं साधु-मुद्यानस्थमवन्दत ।। २२१ ।। देशनां च ततः श्रुत्वा, प्रतिबुद्धः स बुद्धिमान् । राज्ये न्यस्यानन्तवीर्य, प्राव्राजीत्तस्य सन्निधौ ।। २२२।। स चारुचरितोऽप्यन्ते, किञ्चिद्दीक्षां व्यराधयत् । कालं कृत्वा च चमरा-ऽभिधोऽभूदसुराधिपः ।। २२३।। 'साग्रजोऽनन्तवीर्योऽपि, वर्यवीर्यविराजितः । आखण्डल इवाखण्ड-शासनो बुभुजे भुवम् ।। २२४ ।। खेचरेणान्यदैकेन, समं सख्यमभूत्तयोः । स च दत्वा तयोर्विद्याः, सर्वा वैताढ्यमीयिवान् ।। २२५ । 'किराती' 'बर्बरी' सज्ञे, चाभूतां चेटिके तयोः । हरन्त्यो जगतश्चित्तं, गीतनाट्यादिकौशलात् ।। २२६ ।। पुरोऽन्यदा सोदरयो-रास्थानस्थितयोस्तयोः । प्रारब्धे नाटके ताभ्यां, तत्रोपेयाय नारदः ।।२२७।। सङ्गीताक्षिप्तचित्ताभ्यां, ताभ्यां चाकृतगौरवः । अन्तः स कुपितोऽत्यन्त-मगाद्वैताढ्यपर्वतम् ।। २२८।। दमितारिः प्रतिहरि-स्तत्र विद्याधराधिपः । द्रागऽभ्युत्थाय तं सिंहविष्टरेण न्यमन्त्रयत् ।। २२९ ।। दत्ताशिषं निविष्टं च, दमितारिस्तमित्यवक् । त्वया हि भ्रमता स्वैरं, ब्रूहि दृष्टं किमद्भुतम् ।।२३०।। ततः प्रमुदितोऽवादी-नारदोऽद्यैव भूपते ! । शुभापुर्यां गतोऽनन्त-वीर्यस्योर्वीपतेः पुरः ।। २३१।। १. सभातानन्तवीर्यापि । इति 'घ' संज्ञकपुस्तके ।। lloll Ill ill Is ||6| IPoll lell IIGl llell ell ७३५ Jel For Personal use only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy