________________
उत्तराध्ययन
सूत्रम् ७३४
lol संयतीयनाम
अष्टादशमध्ययनम्
विपद्याऽमिततेजाः श्री-विजयश्च बभूवतुः । गीर्वाणी प्राणतस्वर्ग, विंशत्यर्णवजीवितौ ।। २०७।। इतश्च जम्बूद्वीपप्राग-विदेहावनिमण्डने । विजये रमणीयाढे, शुभाख्याऽभूत् पुरी शुभा ।। २०८।। तत्राऽऽसीद्गुणरत्नाढ्यो, राजा स्तिमितसागरः । वसुन्धरानुद्धराद्धे, पन्यौ तस्य च बन्धुरे ।।२०९।। प्रच्युत्य प्राणतस्वर्गा-जीवोऽथामिततेजसः । कुक्षौ वसुन्धरादेव्याः, पुत्रत्वेनोदपद्यत ।। २१०।। वदने विशतो दन्ति'-'वृषेन्दु'कमलाकरान् । सुखसुप्ता तदापश्य-त्स्वप्ने सा कमलानना ।। २११।। तया स्वप्नफलं पृष्ट-श्चैवं स्माह महीपतिः । स्वप्नैरेभिः शुभे ! भावी, बलदेवस्तवाङ्गजः ।। २१२।। तदाकर्ण्य प्रमुदिता, राज्ञी गर्भ बभार सा । क्रमाश्चाजीजनत्पुत्रं, श्वेतवर्णं सुलक्षणम् ।। २१३ ।। चक्रेऽपराजित इति, तस्य नामोत्सवैर्नृपः । मितम्पच इव द्रव्यं, तं चालालयदन्वहम् ।। २१४।। जीवः श्रीविजयस्याऽपि, च्युत्वा प्राणतकल्पतः । उदरेऽनुद्धरादेव्याः, समवातरदन्यदा ।। २१५ ।। 'सिंहलक्ष्मी भानुकुम्भा म्भोधि रत्नोयानलान् । मुखे प्रविशतः स्वप्ने-ऽद्राक्षीद्राज्ञी तदा च सा ।। २१६ ।। स्वप्नार्थमथ भूनाथः, पृष्टो मुदितया तया । सानन्दमवदत्पुत्रो, विष्णुर्भावी तवाऽनघे ! ।।२१७।। कालेऽसूत सुतं सापि, श्यामवर्णं मनोहरम् । तस्योत्सवैर्नृपो नामा-ऽनन्तवीर्य इति व्यधात् ।। २१८ ।। भ्रातरौ वर्द्धमानौ तो, रममाणौ मिथोऽनिशम् । कलाकलापं सकलं, गुरोर्जगृहतुर्दुतम् ।। २१९।।
७३४
Isll
isi
For Personal
Use Only