________________
उत्तराध्ययन
सूत्रम् ७३३
संयतीयनाम अष्टादशमध्ययनम्
||
ISi
1151
161
16
lall
अथेत्यूचेऽशनिः साधु, विना सन्मार्गदेशकम् । मूढः पान्थ इवारण्ये, भवे सुचिरमभ्रमम् ।।१९४।। दिष्ट्या त्वमद्य दृष्टोऽसि, सिद्धिपूर्मार्गदर्शकः । तत्प्रसद्य प्रभो ! सद्यः, साधुधर्म प्रदेहि मे ।। १९५ ।। अनुज्ञातोऽथ मुनिना-ऽशनिघोषो न्यधात्सुधीः । स्वपुत्रमश्वघोषाख्य-मुत्सङ्गेऽमिततेजसः ।। १९६।। अस्मिन्नपि त्वया साधो !, वर्तित्तव्यं स्वपुत्रवत् । तमित्युक्त्वाऽचलस्वामि-समीपे सोग्रहीद् व्रतम् ।।१९७।। प्रणम्याथ बलर्षि श्री-विजयाऽमिततेजसौ । अन्येऽपि च प्रमुदिताः, स्थानं निजं निजं ययुः ।।१९८।। श्राद्धधर्म पालयन्ती, द्योतयन्तौ च शासनम् । कालं खेचरम]शौ, तौ प्राज्यमतिनिन्यतुः ।। १९९ ।। अथाऽन्यदा श्रीविजयो-ऽमिततेजाश्च सङ्गतौ । गतौ मेरुमवन्देता-मनश्वरजिनेश्वरान् ।। २००।। तत्र चानमतां स्वर्ण-शिलास्थौ चारणौ मुनी । ध्यानस्थौ विपुलमति-महामत्याह्वयो मुदा ।। २०१।। तयोश्च देशनां सर्व-भावानित्यत्वशंसिनीम् । श्रुत्वा तौ कियदायुनों, शेषमस्तीत्यपृच्छताम् ।। २०२।। तावाख्यतां शेषमायुः, षड्विंशतिरहानि वाम् । ततस्तो धर्मकृत्योत्को, स्वं स्वं धाम समेयतुः ।। २०३।। अष्टाह्निकोत्सवं कृत्वा, तत्र चाहतवेश्मसु । दानं दत्वा च दीनादेः, पुत्रौ विन्यस्य राज्ययोः ।। २०४।। प्रव्रज्य चाभिनन्दन-जगत्रन्दनसन्निधौ । तौ पादपोगमनानशनं चक्रतुर्मुदा ।। २०५ ।। (युग्मम्) स्वतो महद्धिकं तातं, तदा श्रीविजयोऽस्मरत् । भूयासं पितृतुल्योऽहं, निदानमिति चाकरोत् ।। २०६।।
Marl
Nel
||७||
Isl
lall
fel
Jel
I
७३३
Isl
Lirail Jan Education international
For Personal Private Use Only
www.jainelibrary.org