SearchBrowseAboutContactDonate
Page Preview
Page 774
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ७३२ TOOL LOKOTELELLE LTTTTT Jain Education Intional पार्श्वस्थिते श्रीविजये, नैनां हर्त्तुमहं क्षमे । प्रतार्येति प्रतारण्या, नृपमेनामपाहरम् । । १८१ । । अमूमपापां चामुञ्च मातुरं मातुरन्तिके । अस्यै चानुचितं किञ्चिदवोचं वचसापि न । । १८२ । । तद् ब्रूहि भगवन्नस्यां किं मम प्रेमकारणम् । श्रीषेणादीनां ततस्तां कथामुक्त्वेत्यवग् मुनिः ।। १८३ ।। 'श्रीषेणसत्यभामाभि-नन्दिताशिखिनन्दिताः । विपद्य युग्मिनोऽभूवं स्ततो मृत्वाऽभवन् सुराः ।। १८४ ।। च्युत्वा ततोऽपि श्रीषेणो ऽमिततेजा अभूदसौ । ज्योति: प्रभाह्वा भार्यास्य, जज्ञे सा शिखिनन्दिता ।। १८५ । । जीवोऽभिनन्दितायास्तु सोऽयं श्रीविजयोऽभवत् । तस्य पत्नी सुतारेयं, भामाजीवस्त्वजायत ।। १८६ ।। कपिलस्तु ततो मृत्वा भ्रान्त्वा तिर्यक्षु भूरिशः । तापसस्य सुतो धर्म रतोऽभूद्धर्मिलाभिधः ।। १८७ ।। स च बालतपस्तीव्रं कुर्वन्नारभ्य बाल्यतः । खे यान्तमन्यदाऽपश्यत् खेचरं परमर्द्धिकम् ।। १८८ ।। अमुष्मात्तपसो भावि भवे भूयासमीदृशः । निदानमिति सोऽकार्षीन्मृत्वा च त्वमभूस्ततः ।। १८९ ।। ततः प्राग्भवसम्बन्धात्, स्नेहोऽस्यां भवतोऽभवत् । शतशोऽपि भवान् याति, संस्कार: स्नेहवैरयोः । । १९० ।। श्रुत्वेति विस्मितेष्वन्तः, सकलेष्वर्ककीर्त्तिसूः । भव्योऽस्मि यदि वा नास्मी त्यपृच्छत्तं मुनिप्रभुम् ।। १९१।। साधुरूचे भवादस्माद्भावी त्वं नवमे भवे । क्षेत्रेऽत्र पञ्चमश्चक्री, धर्मचक्री च षोडशः ।। १९२ । । तस्मिन् भवे श्रीविजयो, ज्येष्ठपुत्रो गणी च ते । भावीत्याकर्ण्य तौ श्राद्ध धर्म स्वीचक्रतुर्नृपौ ।। ९९३ । । For Personal & Private Use Only SOODOOSSSSSSSSSSSS 5620052006208S: संयतीयनाम अष्टादश मध्ययनम् ७३२ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy