SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ७३१ संयतीयनाम अष्टादशमध्ययनम् तं चानेतुं महाज्वाला-मादिदेशार्ककीर्तिसूः । ततस्तमन्वधाविष्ट, सा विद्या विश्वजित्वरी ।।१६८।। तस्या नश्यन् क्वाप्यपश्यन्, शरण्यं भृशमाकुलः । विवेशाशनिघोषोऽपि, भरताद्धेऽत्र दक्षिणे ।।१६९।। तत्रः भ्रमंश्च सीमाद्री, तत्कालोत्पन्नकेवलम् । बलदेवर्षिमचलं, सोद्राक्षीदमरैर्वृतम् ।।१७०।। तमेव शरणीचक्रे-ऽशनिघोषोऽपि सत्वरम् । न्यवर्त्तत ततो मोघा, महाज्वाला विहाय तम् ।।१७१।। गत्वा च वार्ता तां सर्वा-मुवाचामिततेजसे । ततः स मुमुदे बाढं, नृपः श्रीविजयस्तथा ।। १७२।। ततः सुतारामानेतुं, प्रेष्य मारीचिखेचरम् । ससैन्यौ तौ विमानस्थौ, द्राक् सीमाद्री समेयतुः ।। १७३।। तत्र प्राणमतां भक्त्या-ऽचलकेवलिनं च तौ । पुर्यां चमरचञ्चायां, मारीचिः खेचरोऽप्यगात् ।। १७४ ।। अहं सुतारामानेतुं, प्रहितोऽमिततेजसा । आगामिहेति च स्माहा-ऽशनिघोषस्य मातरम् ।। १७५ ।। तत: सुतारामादाय, सीमाद्री सा ययौ द्रुतम् । अर्पयामास तां च श्री-विजयामिततेजसोः ।। १७६ ।। तदा च क्षमयामासा-ऽशनिघोषोऽपि तौ मुदा । अथ तेषां पुरश्चक्रे, देशनामचलप्रभुः ।।१७७।। देशनान्ते च रामषि-मित्यूचेऽशनिघोषराट् । न मया दुष्टभावेन, सुताराऽपहता प्रभो ! ।। १७८ ।। किन्तु प्रतारणीविद्या, साधयित्वा गृहं व्रजन् । ज्योतिर्वनेऽपश्यमिमा-मुपश्रीविजयं स्थिताम् ।। १७९।। हेतोः कुतोऽप्यभूदस्यां, मम प्रेम बचोऽतिगम् । विहायैनां पुरो गन्तुं, ततोऽहं नाऽभवं प्रभुः ।।१८०।। Poll llell Hell lioil luslil Isil II llol || Isl llsil Isl lll liell For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy