SearchBrowseAboutContactDonate
Page Preview
Page 772
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ७३० DDDDD DDDDDDDDDI कुन्तप्रोन्तान् रिपून् केचि-दुद्दधुर्वटकानिव । केप्यद्रीणामिवेभानां, दन्तान् दण्डैरखण्डयन् ।। १५६।। मुद्गरैर्ममृदुः केपि, घटानिव भटा रथान् । परिघैश्च परान् केचि क्षुदुश्चणकानिव ।। १५७।। कुष्माण्डानिव केचित्तु द्विषः खङ्गैर्व्यदारयन् । केप्यभिन्दन् द्विषन्मौलीन्, गदाभिर्नालिकेरवत् ।। १५८ ।। केप्युत्खातेभदन्तेन, प्रजहुर्निष्ठितायुधाः । योद्धारः केप्ययुध्यन्त, नियुद्धेन महौजसः । । १५९ ।। शस्त्रमन्त्रास्त्रमायाभिः सदैवं युध्यमानयोः । किञ्चिदूनो मास एको, व्यत्यगात्सैन्ययोस्तयोः ।। १६० ।। भटैः श्रीविजयस्याथा - Sभज्यन्ताऽशनिघोषजाः । ततो डुढौके युद्धाया- ऽशनिघोषनृपः स्वयम् ।। १६१ । । इक्षुनुक्षेव सोऽभाङ्क्षीत् सुतानमिततेजसः । ततः श्रीविजयो राजा, 'जन्यायाऽढौकत स्वयम् ।। १६२ । । साश्चर्यैर्वीक्षितौ देव- स्तौ मिथो घातवञ्चिनौ । उभावपि महावीर्यो, चक्रतुः समरं चिरम् ।। १६३ ।। Jain Education Intional अथ श्रीविजयछत्वाऽसिना शत्रुं द्विधा व्यधात् । जातावशनिघोषौ द्वौ, ते तत्खण्डे उभे ततः ।। १६४ । । चत्वारोऽशनयोऽभूवं-स्तयोश्च छिन्नयोः पुनः । भूयोऽपि तेषु भित्रेषु, तेनाष्टाशनयोऽभवन् ।। १६५ ।। प्रतिप्रहारमिति तै-र्वर्द्धमानैर्मुहुर्मुहुः । किंकर्त्तव्यविमूढोऽभू-द्यावत् श्रीविजयो नृपः ।। १६६ ।। तावत्तत्रामिततेजाः, सिद्धविद्यः समाययौ । करीव सिंहं तं वीक्ष्या - ऽशनिघोषः पलायत ।। १६७ ।। १. युद्धाय । For Personal & Private Use Only 1222222♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠sQQDDQQQQQQ से संयतीयनाम अष्टादश मध्ययनम् ७३० www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy