SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ II IST उत्तराध्ययन सूत्रम् ७२९ 16. 6 संयतीयनाम II अष्टादश मध्ययनम् Isil महाज्वाला महाविद्या, परविद्याबलापहाम् । महासत्वः साधयितुं, जगाम हिमवद्गिरिम् ।।१४३।। (युग्मम्) सहस्ररश्मिना रक्ष्य-माणो मासोपवासकृत् । विद्या साधयितुं तत्रा-ऽमिततेजाः प्रचक्रमे ।।१४४।। इतश्चाशनिघोषाय, दूतं श्रीविजयो नृपः । प्राहिणोत्सोऽपि गत्वा तं, प्रोवाचेति प्रगल्भवाक् ।।१४५।। प्रतारण्या विप्रतार्य, श्रीश्रीविजयपार्थिवम् । हरन् सुतारां किं वीरं-मन्यस्त्वं न हि लज्जितः ।।१४६।। यद्वा पौरुषहीनाना, छलमेव बलं भवेत् ! । किन्तु ध्वान्तमिवा श्री-विजये तत्कथं स्फुरेत् ? ।।१४७।। सुतारां देहि तत्तस्मै, तूर्ण प्रणतिपूर्वकम् । त्वत्प्राणैः सह तां नेता, नेता श्रीविजयोऽन्यथा ! ।।१४८।। शशंसाशनिघोषोऽथ, साधु धृष्टोऽसि दूत रे ! । यदि श्रीविजयोऽत्रागा-न्मन्दधीस्तर्हि तेन किम् ? ।। १४९।। शौर्यांशोऽपि न मे तेन, वराकेण सहिष्यते ! । भानुप्रकाशलेशोऽपि, सह्यते कौशिकेन किम् ।।१५०।। यथाऽऽयातस्तथा यातु, तदसाविह तु स्थितः । सुतारां लप्स्यते नैव, लप्स्यते तु विगोपनाम् ।। १५१।। इति तद्वचनं दूतो, गत्वा राज्ञे व्यजिज्ञपत् । सोऽथ क्रुद्धो भृशं युद्ध-सज्जः सेनामसज्जयत् ।।१५२।। विज्ञायाशनिघोषोऽपि, तस्य सैन्यं रणोद्यतम् । सानीकानऽश्वघोषादीन्, प्रजिघायाऽऽजयेऽङ्गजान् ।। १५३ ।। पूर्णेऽथ रणतुर्याणां, निर्घोषैरभितोऽम्बरे । तयोः प्रववृते घोरं, महानीकमनीकयोः ।। १५४ ।। तदा च समरं द्रष्टुं, देवानां दिवि तस्थुषाम् । वीरा: केऽपि व्यधुर्विघ्नं, कुर्वन्तो मण्डपं शरैः ! ।।१५५।। lell sil Isl Isll Isill Isl ७२९ ||sl in Eco For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy