________________
उत्तराध्ययन
सूत्रम् ७२८
|| संयतीयनाम
अष्टादशमध्ययनम्
foll
Iel llel
isi
161
हा सोदरामिततेजो !, हा श्रीविजय मत्प्रिय ! । इमां सुतारामेतस्माद्विमोचयत खेचरात् ।।१३० ।। गिरं तामनुधावयां, दृष्टावाभ्यां तव प्रिया । उपात्ताशनिघोषेण, सुताराऽस्मत्प्रभोः स्वसा ।। १३१ ।। तां विमोचयितुं दुष्ट !, तिष्ठ तिष्ठेति वादिनौ । योद्धमुत्को समं तेन, सुताराऽऽवामदोऽवदत् ।।१३२।। युवां ज्योतिर्वनं यातं, तत्र श्रीविजयप्रभुम् । प्रतारण्या विप्रतार्य, मार्यमाणं च रक्षतम् ।।१३३।। ततोऽत्र द्रुतमेताभ्या-मावाभ्यां मन्त्रितैर्जलैः । चिताग्निः शमितो दुष्टा, नाशिता च प्रतारणी ।।१३४ ।। हतां सुतारां ज्ञात्वाऽथ, विपन्नं तं नरेश्वरम् । गाढाग्रहेण वैताढ्यं, निन्यतुस्तो नभश्चरौ ।।१३५।। तं चाभ्युदस्थात्सहसा-ऽमिततेजाः ससम्भ्रमः । प्रतिपत्तिं च कृत्वोचैः, पप्रच्छागमकारणम् ।। १३६ ।। ततः श्रीविजयेनोक्ता, तो विद्याधरकुञ्जरौ । तस्मै सर्व सुताराया, हरणोदन्तमूचतुः ।। १३७ ।। क्रुद्धोऽथामिततेजास्तं, प्रोचे हत्वा तव प्रियाम् । मजामि च कियन्नामा-ऽशनिघोषः स जीविता ।। १३८।। उक्त्वेति शस्त्रावरणी, बन्धनी मोचनीं तथा । विद्याममिततेजाः श्री-विजयाय ददौ मुदा ।। १३९ ।। वृतं सैन्यान्वितैः स्वीय-सुतानां पञ्चभिः शतैः । प्रेषीत् श्रीविजयं सद्यः, सुतारानयनाय सः ।।१४०।। ततो विद्याधरानीकै-श्छादयन् द्यां घनरिव । पुर्यां चमरचञ्चायां, क्षिप्रं श्रीविजयो ययौ ।। १४१।। स्वयं त्वशनिघोषं तं, भूरिविद्याविदं विदन् । सहस्ररश्मिना साकं, स्वपुत्रेणार्ककीर्तिसूः ।।१४२।।
Iell llol
||sil ॥6॥ Isll Poll
Isl lel Illl isi Mali || III
७२८
Ifoll Ifoll
sill
lol inin Ecole
For Personal Private Use Only
Hiwww.jainelibrary.org