________________
उत्तराध्ययन
Mish
सूत्रम्
३६
116l
lish
आसणे उवचिठिज्जा, अणुञ्चे अक्कुए थिरे । अप्पुट्ठाई णिरुट्ठाइ, णिसीइज्जप्पकुक्कुए ।।३०।।
विनयनाम
प्रथमव्याख्या - आसने पीठादौ वर्षासु, ऋतुबद्धे तु पादपुञ्छने उपतिष्ठेत्, उपविशेत्, अनुछे द्रव्यतो नीचे भावतस्तु अल्पमूल्यादौ गुर्वासनादिति ॥
मध्ययनम् ॥ गम्यते, अकुचे अस्पन्दमाने, नतु तिनिशफलकवत्किञ्चिञ्चलति, तस्य शृङ्गाराङ्गत्वात् । स्थिरे समपादस्थितितया निश्चले, अन्यथा in सत्वविराधनासम्भवात् । इदृशेऽप्यासने 'अप्पुठाइत्ति' अल्पोत्थायी न पुनः पुनरुत्थानशीलः, निरुत्थायी निमित्तं विना नोत्थानशीलः, निषीदेत्
॥ आसीत 'अप्पकुक्कुएत्ति' अल्पस्पन्दन: करादिभिरप्यल्पमेव चलन्, यद्वा अल्पं कौकुच्यं करचरणधूभ्रमणाद्यसभेष्टारूपं यस्य सोऽल्पकौकुच्य इति । ॥ सूत्रार्थः ।।३०।। सम्प्रत्येषणासमितिविषयं विनयमाह - Maha कालेण णिक्खमे भिक्खू, कालेण य पडिक्कमे । अकालं च विवज्जित्ता, काले कालं समायरे ।।३१।। Mel
__ व्याख्या - काले प्रस्तावे सप्तम्यर्थे तृतीया, निष्क्रामेद्गच्छेदाहाराद्यर्थ भिक्षुः, अकालनिर्गमे आत्मक्लामनादिदोषसम्भवात् । तथा काले च Mell Mel प्रतिक्रामेत् प्रतिनिवर्तेत भिक्षाटनादिति शेषः । अयं भाव - अलाभेऽल्पलाभे वा अतिलाभार्थी न पर्यटन्नेव तिष्ठेत्, किन्तहिं कुर्यादित्याह8 अकालं च तत्तत्क्रियाया असमयं विवर्ण्य विहाय काले प्रस्तावे कालं तत्तत्कालोचितं प्रत्युपेक्षणाद्यनुष्ठानं समाचरेत् कुर्यात् । यदुक्तम् । 6 "कालंमि कोरमाणं, किसिकम्मं बहुफलं जहा होइ । इअ सव्वञ्चिअ किरिआ, णिअणिअकालंमि विण्णेआ ।।१।।" इति सूत्रार्थः ।।३१।।
भिक्षार्थं निर्गतश्च यत्कुर्यात्तदाह -
Mail
foll
||sil | ll
||
lei
||oll
Jain Education inllollional
For Personal & Private Use Only