SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ३५ ॥६॥ 11611 प्रतिशृणुयात्, विधेयतयाऽङ्गीकुर्यादिति सूत्रार्थः ।। २७ ।। ननु अत्र परत्र च परमोपकारि गुरुवचनमपि किं कस्याप्यनिष्टं स्यात् ? येनैवमुच्यत इत्याह - अणुसासणमोवायं, दुक्कडस्स च चोअणं । हिअं तं मण्णए पण्णो, वेसं होइ असाहुणो ।। २८ ।। व्याख्या - अनुशासनं शिक्षणं 'ओवायंति' उपाये मृदुपरुषभाषणादौ भवमौपायं, तथा दुष्कृतस्य च कुत्सिताचरितस्य च चोदनं प्रेरणं, हा ! किमिदमाचरितमित्यादिरूपं, गुरुकृतमिति दृश्यं, हितमिहपरलोकोपकारि तदनुशासनादि मन्यते प्राज्ञः, द्वेष्यं द्वेषोत्पादकं तद्भवत्यसाधोरसाधुभावस्य, | तदेवमसाधोर्गुरुवाक्यमप्यनिष्टं स्यादित्युक्तमिति सूत्रार्थ: ।। २८ ।। अमुमेवार्थं प्रकटयन्नाह - हिअं विगयभया बुद्धा, फरुसंपि अणुसासणं । वेसं तं होइ मूढाणं, खंतिसोहिकरं पयं ।। २९ ।। व्याख्या - हितं पथ्यं विगतभया इहलोकपरलोकादानाकस्मादाजीविकामरणाश्लोकभयरहिता बुद्धा अवगततत्वाः मन्यन्ते इति शेषः, परुषमप्यनुशासनं गुरुकृतमिति ज्ञेयं । 'वेसंति' द्वेष्यं तदनुशासनं भवति मूढानां हिताहितविवेकविकलानां । क्षान्तिः क्षमा, शुद्धिराशयशुद्धता, तत्करं उपलक्षणत्वान्मार्दवार्जवादिकरमपि, क्षान्त्यादिहेतुत्वाद्वर्वनुशासनस्य, पदं ज्ञानादिगुणानां स्थानमिति सूत्रार्थः ।। २९ ।। पुनर्विनयमेवाह - Jain Education Intellonal For Personal & Private Use Only SETTES 에에에에에에에 विनयनाम प्रथम मध्ययनम् ३५ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy