SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Wei ३४ उत्तराध्ययन- वन्ध्यासुतो याति, खपुष्पकृतशेखरः । मृगतृष्णाम्भसि स्नातः, शशशुङ्गधनुर्द्धरः ।।१।।" इति । तथा न नैव मर्मगं मर्मवाचकं त्वं काणः' विनयनाम सूत्रम् इत्यादिकं, अस्यातिसङ्क्लेशोत्पादकत्वादिति, आत्मार्थ स्वार्थं, परार्थं वा अन्यार्थ, उभयस्यात्मनः परस्य च प्रयोजनादितिशेषः, तथा अन्तरेण वा प्रथम मध्ययनम् ॥ विना वा प्रयोजनमिति सूत्रार्थः ।। २५ ।। इत्थं स्वगतदोषापोहमुक्त्वा उपाधिकृतदोषत्यागमाह - समरेसु अगारेसु, संधीसु अ महापहे । एगो एगिथिए सद्धिं, णेव चिट्ठे ण संलवे ।।२६।। व्याख्या - समरेषु लोहकारशालासु, उपलक्षणं चैतदशेषनीचास्पदानां, अगारेषु गृहेषु, सन्धिषु गृहद्वयान्तरालेषु, महापथे राजपथादौ, एकोऽसहाय एकस्त्रिया सार्द्ध सह नैव तिष्ठेनैवोर्ध्वस्थानस्थो भवेत्, न संलपेन्न तयैव सह सम्भाषं कुर्यात्, अत्यन्तदुष्टताख्यापकं Hel चात्रैकग्रहणं, अन्यथा ह्येवंविधास्पदेषु ससहायस्यापि स्त्रिया सहावस्थानं सम्भाषणं च दोषायैव, प्रवचनमालिन्यादिदोषसम्भवात्, उक्तं हि in is "मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति ।।१।।" इति सूत्रार्थः ।।२६।। कदाचित् I स्खलिते च गुरुणा शिक्षितो यत्कुर्यात्तदाह - जं मे बुद्धाणुसासंति, सीएण फरुसेण वा । मम लाभोत्ति पेहाए, पयओ तं पडिस्सुणे ।।२७।। व्याख्या - यन्मे मां बुद्धा गुरवः अनुशासति शिक्षयन्ति, शीतेन उपचारात् शीतलेन आह्लादकेनेत्यर्थः, परुषेण वा कर्कशेन वचसेति in शेषः, मम लाभोऽप्राप्तार्थप्राप्तिरूपोऽयं, यन्मामनाचारकारिणममी सन्मार्गे स्थापयन्ति, इति प्रेक्षया एवंविधबुद्ध्या प्रयतः प्रयत्नवान् तदनुशासनं ile |SH 16 ||Gl llell ३४ llell Isll Isll lell Ioll foll in Education International I6I For Personal & Private Use Only lallww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy