SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ Isil उत्तराध्ययन सूत्रम् ७२५ sil संयतीयनाम 16 अष्टादशIIsl || मध्ययनम् || lol |fall तदा प्रव्रजता पित्रा, सहाहं प्राव्रज शिशुः । महानिमित्तमष्टाङ्ग, तत्रेदं शिक्षितं मया ।। ९१।। पुरं च पद्मिनीषण्डं, यौवने विहरनगाम् । हिरण्यलोमिकाह्वा मे, तत्र चास्ति पितृष्वसा ।। ९२।। तया स्वपुत्री दत्तासी-द्वाल्याञ्चन्द्रयशा मम । अहं तु प्राव्रजमिति, पर्यणेषं न तां तदा ।।१३।। तां च वीक्ष्याऽधुना प्राप्त-यौवनां व्यामुहं मुहुः । तत्सोदरगिरा त्यक्त-व्रतः पर्यणयं च ताम् ।। ९४ ।। निमित्तेन ततः स्वार्थ, महानर्थममुं च ते । विज्ञायाहमिहागां त-द्यथोचितमथो कुरु ।। ९५ ।। तेनेत्युक्तेब्रवीदेको, मन्त्री नाब्धौ पतेत्तडित् । तत्र तिष्ठतु सप्ताहं, नावारूढो विभुस्ततः ।। ९६ ।। ऊचेऽन्यः केन तत्रापि, पतन्ती सा निरोत्स्यते । ? सप्ताहं वसतु स्वामी, तद्वैताढ्यगुहान्तरे ! ।। ९७।। तृतीयो न्यगदनाय-मुपाय: प्रतिभाति मे । अवश्यम्भावी भावो हि, यत्रतत्रापि जायते ! ।। ९८।। तत्तपः क्रियतां सर्वेः, सर्वोपद्रववारकम् । तपसा क्षीयते कर्म, निकाचितमपि द्रुतम् ।।९९।। तुर्यः प्रोचे पोतनोर्वी-पतेरुपरि कथ्यते । गणकेन तडित्पातो, न तु श्रीविजयप्रभोः ।। १००।। क्रियतामपरः कोऽपि, सप्ताहमिह तन्नृपः । पतिष्यति तडित्तस्मिन्, स्वामी स्थास्यति चाक्षतः ।। १०१।। प्रतिपेदे मुदा दैव-ज्ञेनाऽमात्यैश्च तद्वचः । अहो ! साधु मतिज्ञानं, भवतामिति वादिभिः ।। १०२।। ततोऽहमब्रवं त्रातं, स्वप्राणानपरं नरम् । न घातयिष्ये स्वप्राणाः, सर्वेषामपि हि प्रियाः ! ।।१०३।। Mall oil Ioll Poll llsil lel Jel Islil llsll ७२५ isi Ish Tel For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy