________________
lall
lle
उत्तराध्ययन
सूत्रम् ७२४
||sil
संयतीयनाम अष्टादशमध्ययनम्
Iol
ततो विद्याधराधीश-मौलिलालितशासनः । राज्यं तत्पालयामासा-ऽमिततेजा महाभुजः ।।७८ ।। इतश्च मरणे विष्णो-स्त्रिपृष्ठस्य विरक्तधीः । न्यस्य श्रीविजयं राज्ये, प्रावाजीदचलो बलः ।।७९।। अथान्यदा सुताराश्री-विजयो द्रष्टुमुत्सुकः । जगाम पोतनपुरे-ऽमिततेजा महीपतिः ।। ८०।। उत्तम्भितध्वजं तच, पुरमानन्दमेदुरम् । विशेषाञ्च नृपकुलं, वीक्ष्य हृष्टं विसिष्मिये ।। ८१।। व्योमोत्तीर्णं तं च वीक्ष्यो-दस्थात् श्रीविजयो मुदा । मिथो जामिपती तो च, गाढमालिङ्गतां मिथ: ।। ८२।। तत: सिंहासनासीनं, नृपं सिंहासनस्थितः । पप्रच्छामिततेजास्तं, किं निमित्तोऽयमुत्सवः ।। ८३।। तत: श्रीविजयोवादी-दितोऽतीतेऽष्टमे दिने । कोऽपि नैमित्तिकोऽत्रागात्, प्रतिहारनिवेदितः ।। ८४।। किमर्थमागास्त्वमिति, मया पृष्टश्च सोऽब्रवीत् । निमित्तं वक्तुमागां त-त्सावधानः शृणु प्रभो ! ।। ८५ ।। सप्तमेऽह्नि दिनादस्मा-जाते मध्यंदिने महान् । पतिष्यति तडिद्दण्डः, पोतनाधीशमूर्द्धनि ।। ८६।। तत्कर्णकटुकं श्रुत्वा, कुपितोऽमात्यपुङ्गवः । तदा पतिष्यति किमु, त्वयीति तमवोचत ।। ८७।। दैवज्ञोऽथावदन्मां, यथादृष्टार्थवादिने । प्रतीपशकुनायेव, धीसखाधीश ! मा कुपः ।। ८८।। तत्राह्नि मयि तु स्वर्ण-रत्नवृष्टिः पतिष्यति । वदन्तमिति दैवज्ञ-मित्यपृच्छमहं ततः ।। ८९।। निमित्तमीदृग् दैवज्ञा-ऽधीत ब्रूहि कुतस्त्वया ? । सोवादीदचलस्वामी, प्रव्रज्यामाददे यदा ।।१०।।
Isl loll
|| ||sil
७२४
llell
llsil
||
||७||
Ioll Join Education intell
foll
For Personal & Private Use Only