SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ७२२ संयतीयनाम अष्टादशमध्ययनम् चक्रे चतुर्थकं नाम, सा साध्वी दुस्तपं तपः । वेश्यार्थं युध्यमानौ चा-ऽन्यदा पश्यन्नृपाङ्गजौ ।।५२।। दध्यौ चैवमहो ! अस्याः, सौभाग्यं भुवनाद्भुतम् । यदर्थमेतौ युध्येते, कुमारौ मारसुन्दरौ ।।५३।। महिम्नाऽमुष्य तपस-स्तन्ममाप्यन्यजन्मनि । भूयात्सौभाग्यमीदृक्षं, निदानमिति सा व्यधात् ।। ५४।। प्रान्ते चानशनं कृत्वा, सौधर्म चाभवत्सुरी । विमाता या पुनस्तस्याः, कनकश्रीरभूत्तदा ।।५५।। सा तु मृत्वा भवं भ्रान्त्वा, कृत्वा जन्मन्यनन्तरे । दानादि पुण्यं त्वमभूः, खेचरो मणिकुण्डली ।। ५६।। क्रमाद्विपद्य कनक-लतापद्मलते तु ते । भवं भ्रान्त्वा प्राग्भवे च, विधाय विविधं शुभम् ।। ५७।। द्वीपस्यास्यैव भरते, पुरे रत्नपुराह्वये । इन्दुषेणबिन्दुषेणौ, जातौ श्रीषेणराट्सुतौ ।।५८।। (युग्मम्) पद्माजीवो दिवश्च्युत्वा, तत्रैव गणिकाऽभवत् । इन्दुषेणबिन्दुषेणौ, युध्येते तत्कृतेऽधुना ! ।।५९।। श्रुत्वेति प्राग् भवान् सोऽहं, युवां युद्धानिषेधितुम् । इहागां तद्विबुध्येथां, मा युध्येथां स्वसुः कृते ।। ६०।। माताहं युवयोः पूर्व-भवे वेश्या त्वसौ स्वसा । तद्धि मोहं विहायाशु, श्रयेथां शुद्धिकृद् व्रतम् ।। ६१।। ततस्तो साधु साध्वावां, बोधिताविति वादिनौ । सहस्र मिनाथानां, चतुर्भिः परिवारितौ ।। ६२।। गुरोधर्मरुचेः पार्श्वे, दीक्षामादाय धीधनौ । तप्त्वा चिरं तपो घोर-मगातां परमं पदम् ।। ६३ ।। (युग्मम्) अथ श्रीषणजीवाद्या-श्चत्वारस्तेपि युग्मिनः । आयुः प्रपूर्य सौधर्म-स्वर्गमीयुः सुखास्पदम् ।। ६४।। ७२२ foll Isl Isil Jain Education intellellanal For Personal & Private Use Only ww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy