SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ Wol उत्तराध्ययन सूत्रम् ७१९ ||all 6 Isi संयतीयनाम अष्टादशमध्ययनम् कपिलोऽपि सुखं सत्य-भामयाऽन्वहमन्वभूत् । लोकप्रदत्तद्रविणैः, समृद्धशाचिरादभूत् ।।१५।। नाट्यं वीक्ष्याऽन्यदा तस्मि-निवृत्ते प्रावृषो निशि । 'सारं धाराधरो धारा-सारं मोक्तुं प्रचक्रमे ।। १६ ।। तदा घनान्धकारत्वा-द्विजनत्वात्पथश्च सः । क्षिप्त्वांशुकानि कक्षान्त-नग्नीभूयाऽगमगृहम् ।।१७।। द्वारे च परिधायान्त-र्गतं तं सत्यकिसुता । क्लिन्नवस्त्रोऽयमित्यन्य-वस्त्रपाणिरुपागमत् ।।१८।। नाद्रीभूतानि मे वृष्टा-वपि वासांसि विद्यया । अलं तदपरैर्वस्त्रे-रित्यूचे कपिलस्तु ताम् ।।१९।। तस्याङ्गं क्लिन्नमक्लिन्ना-न्यंशुकान्यथ वीक्ष्य सा । दध्यौ यो विद्यया रक्षे-द्वस्त्राण्यङ्गं कथं न सः? ।।२०।। तन्नूनमागानग्नोय-मकुलीनश्च विद्यते । भवेन्नैतादृशी बुद्धिः, कुलीनानां हि जातुचित् ! ।।२१।। वेदानपि पपाठायं, कर्णश्रुत्यैव धीबलात् । ध्यायन्तीति ततो मन्द-स्नेहा तस्मिन् बभूव सा ।।२२।। अन्यदा धरणिजटो, दैवात्प्राप्तोऽतिदुःस्थताम् । श्रीमन्तं कपिलं श्रुत्वा, तत्रागाद्धनलिप्सया ।।२३।। चकार कपिलस्तस्य, भक्तिं स्नानाशनादिना । अपरोप्यतिथि: पूज्यः, कोविदः किं पुनः पिता ! ।।२४।। तयोः पितापुत्रयोश्च, वीक्ष्याचारेऽन्तरं महत् । जाताशङ्का भृशं भामे-त्युवाच श्वशुरं रहः ।।२५।। द्विजन्महत्याशपथं, दत्वा पृच्छामि वः प्रभो ! । पुत्रोऽयं वः शुद्धपक्ष-द्वयोऽन्यो वेति कथ्यताम् ।।२६।। foll .जलम् । ७१९ Isil lel lll JainEducation intellelona For Personal & Private Use Only awww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy