________________
उत्तराध्ययन
सूत्रम् ७१८
SS లో లౌ లౌ ఛార్జ్
Jain Education Intel
प्रिये अभूतां तस्याभिनन्दिताशिखिनन्दिते । स्मरस्येव रतिप्रीती, परमप्रीतिभाजनम् ।।२।। तत्राभिनन्दिताकुक्षि-प्रभवौ तस्य भूप्रभोः । इन्दुषेणबिन्दुषेणा - वभूतां तनयावुभौ ॥ ३ ॥ सूरेर्विमलबोधाद्वात् श्राद्धधर्मं स पार्थिवः । प्राप लोक इवालोकं, कोकबन्धोस्तमोपहात् ।। ४ ।। तंत्र चाभूदुपाध्यायः, सत्यकिर्नाम सत्यधीः । जम्बुकाह्वा प्रिया तस्य, सत्यभामा च नन्दना ।। ५ ।। (इतश्च) मगधेष्वचलग्रामे, वेदवेदाङ्गपारगः । नाम्ना धरणिजटोऽभू-द्विप्रो धरणिविश्रुतः ।। ६ ।। तस्याभूतां यशोभद्रा-भिधभार्यासमुद्भवौ । कुलीनौ द्वौ सुतौ नन्दि-भूतिश्रीभूतिसञ्ज्ञकौ ।।७।। स च विप्रश्चिरं रेमे, दास्या कपिलया समं । तत्कुक्षिजः ततस्तस्य, सुतोऽभूत्कपिलाभिधः ।। ८ ।। स दासेरः सुतौ कुल्या, पितुः पाठयतोऽन्तिकात् । कर्णश्रुत्या श्रुतीः सर्वा स्तूष्णीकोप्यग्रहीत्सुधीः ।। ९ ।। ग्रामात्ततोऽथ निर्गत्यो-पवीतद्वयमुद्वहन् । द्विजोत्तमोऽस्मीति वदन्, पर्यटन् पृथिवीतले ।। १० ।। पुरे रत्नपुरे सोऽगात्, सत्यकिद्विजसन्निधौ । कस्त्वमागाः कुतश्चेति, तत्पृष्टश्चैवमब्रवीत् ।। ११ ।। (युग्मम्) पुत्रोऽहं धरणिजट-द्विजस्य कपिलाभिधः । इहागामचलग्रामात्, क्षोणीवीक्षणकौतुकी ।। १२ ।। सत्यकिं पृच्छतां सोऽथ, छात्राणां निखिलानपि । चिच्छेद वेदविषयानन्तरापि हि संशयान् ।। १३ ।। तुष्टोऽथ सत्यकिश्छात्र-पाठने तं न्ययोजयत् । स्वपुत्रीं सत्यभामां च, मुदा तेनोदवाहयत् ।। १४ ।।
For Personal & Private Use Only
|| संयतीयनाम अष्टादश
मध्ययनम्
ZTSSSSS
७१८
Www.jainelibrary.org