________________
उत्तराध्ययन
सूत्रम् ७१७
संयतीयनाम अष्टादशमध्ययनम्
llel
lol foll lll
mol
आतङ्कान्तं नयाम्येता-दृशांस्तु स्वयमप्यहम् । चिकित्सा क्रियते कर्म-रुजां चेत्कार्यते तदा ! ।।२४८।। हन्तुं कर्मामयान् शक्ता, यूयमेवेतिवादिनौ । विस्मितौ तौ ततश्चक्रि-मुनि नत्वैवमूचतुः ।। २४९।। लब्धलब्धिरपि व्याधि-व्यथा धीरस्तितिक्षते । सनत्कुमारराजर्षि-रिति त्वां हरिरस्तवीत् ।। २५०।। ततस्ते रूपवीक्षार्थं, यथावामागतो पुरा । तथा सत्वपरीक्षार्थ-मधुनापि समागतो ।। २५१।। दृष्टं च तदपि स्पष्टं सुराचल इवाचलम् । इत्युक्त्वा तं च नत्वा तौ, तिरोधत्तां सुधाशनौ ।। २५२।। कौमारे मण्डलीत्वे च, लक्षार्द्ध शरदामभूत् । लक्षं च तस्य चक्रित्वे, श्रामण्येऽपि तदेव हि ।। २५३।। वर्षलक्षत्रयीमान-मतिवाटायुरित्ययम् । चकारानशनं प्रान्ते, सम्मेताचलमूर्द्धनि ।। २५४।। आयुःक्षयेणाऽथ सनत्कुमारः, सनत्कुमारत्रिदिवे सुरोऽभूत् । ततश्च्युतश्चायमवाप्य देहमन्त्यं विदेहे शिवगेहमेता ।। २५५ ।। इति सनत्कुमारचक्रिकथा ।।३७।। चइत्ता भारहं वासं, चक्कवट्टी महिड्डीओ । संती संतीकरो लोए, पत्तो गइमणुत्तरं ।।३८।। व्याख्या - व्यक्तं, कथासम्प्रदायस्त्विहायम्, तथा हि - अत्रैव भरतक्षेत्रे, पुरे रत्नपुराभिधे । भूपः श्रीषेणनामाभू-त्समग्रगुणसेवधिः ।।१।।
Ill ||७|| ||७||
Ill
lell
iislil ||७|| ||ll ||ll
11sl lol ||७||
Nor
Neil
isi llol
७१७
For Personal Private Use Only