SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ७१४ संयतीयनाम अष्टादशमध्ययनम् 61 I Jell Isil Isil si Isll Holl llell llll दध्यतुश्चेत्यहो ! अस्य, तेजः प्राज्यं रवेरिव । पयोधिजलवन्माना-तिगं लावण्यमप्यहो ! ।। २१०।। स्थाप्यते दृष्टिरस्याङ्गे, यत्र यत्र ततस्ततः । कीलितेव निमग्नेव, कृच्छ्रादेव निवर्त्तते ! ।। २११।। रूपं तदस्य शक्रेण, मिथ्या न खलु वर्णितम् । अद्यर्थ्ययाप्यभूवावां, कृतार्थावस्य दर्शनात् ।। २१२।। शुभवन्तौ भवन्ती भोः !, तो हेतोरिहागतो ? । अथेत्युक्तौ नृदेवेन, भूदेवावेवमूचतुः ।। २१३ ।। रूपमप्रतिरूपं ते, वर्ण्यमानं जगजनैः । निशाम्यावामिहायातो, तदर्शनकुतूहलात् ।। २१४ ।। यादृशं च तवावाभ्यां, श्रुतं रूपं जनाननात् । दृश्यते सविशेष भू-विशेषक ! ततोप्यदः ।। २१५ ।। ऊचे रूपमदाद्भूपो, युवाभ्यां भो द्विजोत्तमौ ! । किं मे मजनसजस्य, रूपमेतन्निरूपितम् ? ।। २१६ ।। तत्कृत्वा मजनं सार-रत्नालङ्कारभासुरः । शोभयामि सभां यावत्, क्षणं तावत् प्रतीक्ष्यताम् ।। २१७ ।। रूपं तदा च मे सम्यक्, प्रेक्षणीयं मनोरमम् । इत्युक्तौ देवभूदेवी, राज्ञा तस्थतुरन्यतः ।। २१८।। स्नात्वा भूपस्ततो भूरि-भूषाभूषितभूघनः । सभां विभूष्य तौ विप्रौ, रूपं द्रष्टुं समादिशत् ।। २१९ ।। अथेक्षमाणौ तौ वीक्ष्य, भूपरूपमनीदृशम् । विषण्णौ दध्यतुरहो !, नृणां रूपादि चञ्चलम् ।। २२०।। नृपः प्रोचे पुरा प्रेक्ष्य, मां युवां मुदितावपि । विषादश्यामलास्यौ द्राक्, सञ्जातौ साम्प्रतं कुतः ? ।। २२१ ।। तावूचतुः सुरावावां, दिवि देवेन्द्रवर्णितम् । अश्रद्दधानौ त्वद्रूपं, परीक्षितुमिहागतो ।। २२२।। | Ilel IIsil Mell llsil islil well Nell Isil isil Nell list lI6I ७१४ ol fel II iel Iel For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy