________________
6 संयतीयनाम
उत्तराध्ययन
सूत्रम् ७१२
|||| अष्टादश
मध्ययनम्
Nell Poll Nell 16ll ||Gll Heall
अथो सनत्कुमारस्य, राज्यं पालयतोऽन्यदा । चक्रादीनि महारत्नान्यजायन्त चतुर्दश ।। १८४ ।। ततो वर्षसहस्रेण, साधयित्वा स भारतम् । निधानानि नवासाद्य, पुनरागान्निजं पुरम् ।। १८५ ।। प्रविशन्तं पुरे तं चा-वधिना वीक्ष्य वासवः । मत्तुल्योऽसौ प्राग्भवेऽभू-दिति स्नेहं ददौ भृशम् ।। १८६।। श्रीदं चेत्यादिशञ्चक्री, तुर्योऽसावस्ति मे सुहृत् । राज्याभिषेकं तद्गत्वा, कुरुष्वाऽमुष्य धीनिधे ! ।। १८७।। इत्युक्त्वा चामरे च्छत्रं, हारं मौलिं च कुण्डले । सिंहासनं पादपीठं, देवदूष्ये च पादुके ।। १८८।। दातुं सनत्कुमाराय, धनदस्य हरिददौ । रम्भातिलोत्तमादींश्च, गन्तुं तेन सहादिशत् ।।१८९।। (युग्मम्) ततस्तदन्वितो गत्वा, कुबेरो हस्तिनापुरे । सौधर्माधिपतेराज्ञां, चक्रिणे तां न्यवेदयत् ।। १९०।। तेन चानुमतः श्रीदो, विचक्रे योजनायतम् । माणिक्यपीठं तस्योर्ध्वं, मण्डपं च मणीमयम् ।। १९१।। मणिपीठं च तन्मध्ये, कृत्वा सिंहासनाञ्चितम् । आनाययद्वैश्रवणः, क्षीरोदादुदकं सुरैः ।। १९२।। तत: सगौरवं श्रीद-श्चक्रिणं तत्र मण्डपे । सिंहासने निवेश्येन्द्र-प्रहितं प्राभृतं ददौ ।।१९३।। चक्रे चक्रित्वाऽभिषेकं, तैर्जलैः सोऽथ चक्रिणः । मङ्गलातोद्यनिर्घोषं, तदोञ्चैश्चक्रिरे सुराः ।। १९४।। तदा मङ्गलगीतानि, जगुनिर्जरगायना: । रम्भातिलोत्तमाद्याश्च, नाटकं व्यधुरुत्तमम् ।।१९५।। पूजयित्वाथ तं वस्त्र-भूषामाल्यविलेपनैः । श्रीदः प्राविशद्गन्ध-हस्तिना हस्तिनापुरे ।। १९६ ।।
Iroll
wall
||all
Noll || ||Gll
||oll
OM
l/6ll
lish
Mail
||61
6 lol Iroll lol
Nell lilsil 16ll 116l
७१२
Isil llolliww.jainelibrary.org
JainEducation intedianpinal
For Personal & Private Use Only