SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ७११ ||७|| ||७|| il संयतीयनाम अष्टादशमध्ययनम् ततो विविधलीलाभिः, क्रीडन् विद्याधरीवृतः । निनायासौ सुखं कालं, खेचरेन्द्रनिषेवितः ।।१७१।। अद्य तु क्रीडयात्रागा-देवाञ्च मिलितो भवान् । अनुकूले हि दैवे स्या-द्विनोपायमपीहितम् ।।१७२।। एवं बकुलमत्योक्ते, गृहानिर्गत्य भूपभूः । मित्रेण सह वैताढ्यं, जगाम सपरिच्छदः ।।१७३।। प्राप्यावसरमन्येधु-महेन्द्रस्तं व्यजिज्ञपत् । पितरौ त्वद्वियोगार्ता, प्रभो ! भूरि विषीदतः ।।१७४।। कदा कुमारं द्रक्ष्यामो, ध्यायन्तावित्यहर्निशम् । स्वदर्शनेन पितरौ, प्रमोदयितुमर्हसि ।।१७५।। श्रुत्वेति सोऽपि सोत्कण्ठः, सकलत्रस्वमित्रयुक् । विमानैर्विविधैर्कोम्नि, दर्शयन् शतशो रवीन् ।।१७६ ।। दिव्यवेपोमयायि-द्विपवाहादिवाहनः । ससैन्यैः खेचराधीशै-वृतः शक्र इवामरेः ।। १७७।। वर्यतू-घनिर्घोष, रोदसी परिपूरयन् । जगाम सम्पदां धाम, पुरं श्रीहस्तिनापुरम् ।। १७८।। (त्रिभिर्विशेषकम्) तत्र स्वदर्शनेनाशु, पितरौ नागरांश्च सः । प्रामुमुदश्चक्रवाको, पद्मानि च यथार्यमा ।। १७९।। पश्यन्पुत्रस्य तां लक्ष्मी-मश्वसेननरेश्वरः । विस्मयं च प्रमोदं च, प्राप वाचामगोचरम् ।।१८०।। तुष्टेन राज्ञा पृष्टोऽथ, कुमारस्यात्मनश्च तम् । वृत्तान्तमखिलं प्रोचे, महेन्द्रो विस्मयावहम् ।।१८१।। ततोऽश्वसेनभूपाल:, पुत्रं राज्ये न्यवीविशत् । सुधीर्महेन्द्रसिंह च, तत्सेनाधिपतिं व्यधात् ।।१८२।। स्वयं तु श्रीधर्मनाथ-तीर्थ स्थविरसन्निधौ । विरक्त व्रतमादाय, निजं जन्माकृतार्थयत् ।। १८३।। Del ७११ hell ||al JainEducation inter For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy