SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ७१० 222222222cce आग्रेऽयं वारुणेनैवं, वायव्यं पार्वतेन च । वैरिशस्त्रं निजग्राह प्रतिशस्त्रेण ते सुहृत् ।। १५९ ।। ततः कार्मुकमादाय, नाराचं मुञ्चतो द्विषः । अद्धेन्दुनाऽसौ चिच्छेद, मौर्वी सह जयाशया ।। १६० ।। अथो कृपाणमाकृष्य, धावतस्तस्य ते सखा । बाहोरर्द्धं महाबाहु-र्मृणालच्छेदमच्छिनत् ।। १६१ ।। तथापि धावतो हन्तुं तस्य प्रज्वलतः क्रुधा । विद्यादत्तेन चक्रेण, चक्रेऽसौ मस्तकं पृथक् ! ।। १६२ ।। राज्यलक्ष्मीस्ततः सर्वा, तस्य खेचरचक्रिणः । हराविव प्रतिहरेः, सञ्चक्राम मम प्रिये ।। १६३ ।। सन्ध्यावलीसुनन्दाभ्यां सानन्दाभ्यां युतस्ततः । वैताढ्याद्रौ जगामासौ, चन्द्रवेगादिभिः समम् ।। १६४ ।। तत्र चामुष्य सम्भूय, सकलैः खेचरैश्चरैः । विद्याधरमहाराज्याभिषेको निर्ममे मुदा ।। १६५ । अथैनं शाश्वते चैत्ये, विहिताष्टाह्निकोत्सवम् । खेचरेन्द्रश्चन्द्रवेग, इत्यूचे मत्पिताऽन्यदा ।। १६६ । । मार्मालमुनिना प्रोक्तं यत्तुर्यचक्रभृत् । भावी सनत्कुमाराख्यः, पतिः पुत्रीशतस्य ते ।। १६७ ।। स चायास्यति मासेन, मानसेऽत्र सरोवरे । तत्रासिताक्षयक्षं च, 'पराजेता महाभुजः ।। १६८ ।। ततो बकुलमत्यादि-सुताशतमिदं मम । परिणीय प्रभो ! क्षिप्रं प्रार्थनां मे कृतार्थय । । १६९ ।। विज्ञप्त इति मत्पित्रा, वयस्यस्ते महाशयः । मदादिकाः शतं कन्याः, परिणिन्ये महामहैः ।। १७० ।। १. जयिष्यति महाभुजः । इति "घ" संतकपुस्तके || ॥७॥ Jain Education Intional For Personal & Private Use Only SEEEEEEE A TO DO A D संयतीयनाम अष्टादशमध्ययनम् ७१० www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy