SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ७०७ 8888888888888 తాతా తాతా తాతా Jain Education intonal अभ्युत्थानादिकं कृत्वो चितं सोप्येनमित्यवक् । उद्वह त्वं महाभाग !, ममाष्टौ नन्दना इमाः ।। १२० । । एतासां स प्रियो भावी योऽसिताक्षं विजेष्यते । इत्यर्चिर्मालिमुनिना, प्रोचे तत्प्रार्थ्यसे मया ।। १२१ । । तेनेत्युक्तस्तव सुहृत्, परिणिन्ये तदैव ताः । ताभिः सहास्वपीद्वासा- वासे चाऽऽबद्धकङ्कणः ।। १२२ ।। तदोत्क्षिप्यासिताक्षोऽमुं, निद्राणं गहनेऽक्षिपत् । तत्र प्रेक्ष्य विनिद्रः स्वं दध्यौ किमिदमित्ययम् ।। १२३ ।। आर्यपुत्रस्ततोsटव्या मेकाकी पूर्ववद्भ्रमन् । सप्तभूमिकमद्राक्षीत्, प्रासादमधिभूधरम् ।। १२४ ।। मायेयमपि कस्यापि भाविनीत्येष भावयन् । तत्समीपे गतोऽ श्रोषी त्कस्याश्चिद्वदितं स्त्रियाः ।। १२५ ।। ततस्तत्र प्रविश्याय - मारूढः सप्तमीं भुवम् । दिव्यां कनीं ददशैकां वदन्तीमिति गद्गदम् ।। १२६ ।। जगत्रयजनोत्कृष्ट, कुरुवंशनभोरवे ! । सनत्कुमार ! भर्त्ता त्वं भूयाज्जन्मान्तरेऽपि मे ।। १२७ ।। तदाकर्ण्य ममासौ का, भवतीति विचिन्तयन् । पुरोभूयार्यपुत्रस्तां, न्यग्मुखीमेवमब्रवीत् ।। १२८ ।। का त्वं सनत्कुमारेण, सम्बन्धस्तव कः पुनः ? । मुहुः स्मरन्ती तं चैवं, केन दुःखेन रोदिषि ? ।। १२९ ।। पृष्टानेनेति साऽमुष्मै, प्रदायासनमुत्तमम् । सुस्मिता विस्मिता प्रोचे, सुधामधुरया गिरा ।। १३० ।। सुराष्ट्रराजः साकेत पुरेशस्य सुतास्म्यहम् । सुनन्दाद्वा चन्द्रयशो देवीकुक्षिसमुद्भवा ।। १३१ । । कलयित्वा कलाः सर्वा, वयो मध्यममध्यगाम् । धवोस्याः कोऽनुरूपः स्यादिति दध्यौ तदा नृपः ? ।। १३२ ।। For Personal & Private Use Only శాచాడొ వా వా వా STATE संयतीयनाम अष्टादशमध्ययनम् ७०७ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy