________________
उत्तराध्ययन
सूत्रम् ७०६
संयतीयनाम अष्टादशमध्ययनम्
आर्यपुत्रमथो लोह-मुद्रेण जघान सः । विरमन्ति हि नाकृत्या-त्कथञ्चिदपि दुर्जना: ! ।।१०७।। उन्मूलितेन सहसा, महता चन्दनगुणा । तं वर्धिष्णुं निहत्योा , सखा तेऽपातयत्ततः ।।१०८।। गिरिमुत्क्षिप्य यक्षोथा-ऽक्षिपदस्योपरि द्रुतम् । क्षणं निश्चेतनो जज्ञे, बाधितस्तेन ते सुहृत् ।।१०९।। लब्धसज्ञस्तु तं शैल-मवधूयोत्थितो द्रुतम् । आर्यपुत्रो नियुद्धेन, योद्धमावास्त गुह्यकम् ।। ११०।। ततोऽसौ बाहुदण्डेन, हत्वा तं खण्डशो व्यधात् । अमरत्वात्तदा मृत्यु-माससाद न गुह्यकः ।।१११।। ततो रसित्वा विरस-मसिताक्ष: पलायत । पुरो हि हस्तिमल्लस्य, महिषः स्यात्कियञ्चिरम् ।। ११२।। वीक्षितुं समराश्चर्य-मागताः सुरखेचराः । मौलो त्वत्सुहृदः पुष्प-वृष्टिं तुष्टा वितेनिरे ! ।। ११३।। अपराह्ने पुरो गच्छं-स्ततोऽसौ नन्दने वने । ददर्शाष्टौ कनी: शक्र-महिषीरिव सुन्दराः ।।११४ ।। कटाक्षदक्षनयन-र्ददृशे ताभिरप्ययम् । अथोपेत्यार्यपुत्रस्ता-स्तद्भावं ज्ञातुमित्यवक् ।। ११५ ।। नयनानन्दना यूयं, कृतिन: कस्य नन्दनाः । हेतुना केन युष्माभि-र्वनमेतदलङ्कृतम् ? ।।११६ ।। ता: प्रोचुर्भानुवेगस्य, खेचरस्य सुता वयम् । इतश्च नातिदूरेस्ति, तत्पुरी प्रियसङ्गमा ।। ११७ ।। तामलङ्कृत्य विश्राम्ये-त्युक्तस्ताभिः सखा तव । दर्शिताध्वा तदादिष्ट-किङ्करेण जगाम ताम् ।। ११८।। उपापरार्णवं भानु-स्तदानीयत सन्ध्यया । उपतातं मुदानायी, सौविदेस्ताभिरप्यसो ।। ११९ ।।
JOI
Isl
lol
७०६
||७ livoll Ill llroll
Jain Education intellbillbul
i
For Personal & Private Use Only