________________
MSI
116l lls
lel
उत्तराध्ययन
सूत्रम् ७०४
115||
||sil Mol संयतीयनाम isl अष्टादशIll मध्ययनम् lls
lol ||sl
Ill
16 lell ||sil lll le loll
त्वमत्रागाः किमेकाकी, कथं वा मामिहाऽविदः ? । अन्तरामामियन्तं चा-ऽगमयः समयं कथम् ? ।। ८१।। पित्रोः का विद्यते हृद्य !, मद्वियोगवशाद्दशा । पितृभ्यां प्रहितो हन्त, त्वमिहापि किमेककः ? ।। ८२।। तेनेति पृष्टः स्निग्धेषु, प्रष्ठो गद्गदयागिरा । महेन्द्रसिंहः सकलं, प्राच्यं वृत्तान्तमब्रवीत् ।।८३।। ततः स्नेहं च धैर्यं च, सकर्णस्तस्य वर्णयन् । कुमारोऽकारयत् स्नान-भोजनादि वधूजनैः ।। ८४ ।। महेन्द्रोऽथ कुमारेन्द्र-मित्युवाच कृताञ्जलिः । आरभ्याश्वापहारात्स्वां, वार्ता ब्रूहि प्रसद्य मे ! ।। ८५।। तेनेत्युक्तः कुमारोऽन्तरिति दध्यो विशुद्धधीः । स्वनामेव स्वयं वक्तु-मयुक्ता स्वकथा सताम् ! ।। ८६।। स्वतुल्यस्य वयस्यस्य, वाच्या चावश्यमस्य सा । कथयामि तदन्येन, केनाप्येनां सविस्तराम् ।। ८७।। ध्यात्वेति कान्तां बकुल-मत्याह्वामिति सोऽवदत् । प्रियेऽस्मै मत्कथां तथ्यां, वद विज्ञाय विद्यया ।। ८८।। शुभाशये ! शयेऽहं तु, निदाघर्णितलोचनः । इत्युदित्वा रतिगृहं, प्रविश्याशेत भूपभूः ।। ८९।। ततो महेन्द्रसिंह सा-ऽवदत्तव सुहृत्तदा । निन्ये हयेन हृत्वाऽऽशु, कान्तारमतिभीषणम् ।।१०।। द्वितीयेऽपि दिने तत्र, व्रजन् वाजी जवेन सः । तस्थौ मध्यंदिने कृष्ट्वा, रसनां क्षुत्तृषातुरः ।। ९१।। ततः स्तब्धक्रमाच्छ्वासा-पूर्णकण्ठात् श्रमाकुलात् । तस्मादुत्तीर्यार्यपुत्रः, पर्याणमुदतारयत् ।। ९२।। घूर्णित्वाऽश्वस्ततोऽपप्तत्, प्राणेश्च मुमुचे द्रुतम् । तृषाकुलः सखा ते तु, तदाटीत्परितोऽम्भसे ।। ९३।।
构概构构將
lall
lell ||
uslil
llll
Ileslil ||sill ||Gl
||
||
७०४
||
lic 110
|| JainEducation intellelonal
For Personal & Private Use Only
www.jainelibrary.org