________________
Wall Iroll foll
उत्तराध्ययन
सूत्रम् ७०३
Isll isl संयतीयनाम ||
अष्टादशlish
मध्ययनम्
|| II lial
le
|IGll
wall
liel
all IMill lifolll
तत एकोपि कुञ्जेषु, कन्दरासु च भूभृताम् । भिल्लेश इव सोऽभ्राम्य-न्मित्रं द्रष्टुं धनुर्द्धरः ।। ६८।। निदाघवर्षाशीतर्तृन्, क्षुधातृष्णाश्रमांश्च स । मित्रैकतानो नाज्ञासी-द्योगीव ध्यानतत्परः ।।६९।। तस्यैवं भ्राम्यतोऽटव्यां, व्यतीते वत्सरेऽन्यदा । कर्णातिथित्वमगम-त्सरसः सारसध्वनिः ।। ७०।। घ्राणं चाप्रीणयद्वायुः, कमलामोदमेदुरः । ततः पद्यसरः किञ्चि-दिहास्तीति विवेद सः ।। ७१।। सोऽथ पद्माकरमभि-व्रजन् वीरव्रजाग्रणी: । सद्गीतमिश्रमश्रौषी-द्वेणुवीणाकलक्वणम् ।। ७२।। ततः प्रमुदितः प्राज्ञ-पुरोगस्स पुरो गतः । ददर्श दर्शनसुधा-ञ्जनं मित्रं वधूवृतम् ।।७३।। किं मनोविभ्रमः किं वा, सखाऽसौ मे सुखाकरः ? । सोऽथ ध्यायन्निति तदे-त्यश्रीषीद्वन्दिनो वचः ।।७४।। कुरुवंशावतंसश्री-अश्वसेननृपात्मज ! । सनत्कुमार ! सौभाग्य-जितमार ! चिरं जय ।। ७५।। निशम्येति प्रमोदाश्रु-वृष्टिमेघायितेक्षण: । गत्वा स दृक्पथं सख्यु-~पतत् पादपद्मयोः ।। ७६।। अभ्युत्थाय कुमारोऽपि, दोर्ध्यामादाय सादरम् । तमालिलिङ्ग सर्वाङ्ग, हर्षात्रैः स्नपयन्निव ।। ७७।। अथाचिन्त्यमिथःसङ्गा-त्तौ भृशं जातविस्मयो । हर्षोदञ्चद्रोमहर्षा-वासीनावासनद्वये ।। ७८ ।। वीक्षितौ खेचरगणैः, स्मयमानैः सविस्मयः । क्षणं बाष्पाम्बुपूर्णाक्षी, परस्परमपश्यताम् ।।७९।। (युग्मम्) खेचरीनिकरे त्यक्त-गीतादितुमुले ततः । कुमारः स्वदृशोरश्रु, प्रमृज्य तमदोवदत् ।। ८०।।
161 Isll sil
Isll
16|| isil
foll ||sil
Nell Holl llsil
Isl IIsll lel llell 16ll
llell
७०३
ell
16ll
Ifoll
llell loll
in Education International
For Personal & Private Use Only
www.jainelibrary.org