SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ ISM उत्तराध्ययन सूत्रम् ७०१ संयतीयनाम अष्टादशमध्ययनम् lall जैत्रसेनोऽश्वसेनाबस्तत्राभूभृभुजां वरः । सहदेवीति तस्यासी-देवी देवीव भूगता ।। ४२।। तस्याः कुक्षौ जिनधर्म-जीवः स्वर्गात्परिच्युतः । चतुर्दश महास्वप्नान्, दर्शयन् समवातरत् ।। ४३।। पूणे कालेऽथ साऽसूत, सुतं लक्षणलक्षितम् । जगज्जनमनोहारि, रूपं लक्ष्मीरिव स्मरम् ।। ४४ ।। सनत्कुमार इत्याख्या, चक्रे तस्योत्सवैर्नृपः । सोऽथ क्रमेण ववृधे, कल्पद्रुम इवोद्गतः ।। ४५।। श्रीमान् महेन्द्रसिंहाख्यः, कालिन्दीसूरयोः सुतः । सपांशुक्रीडितस्तस्य, वयस्यः शस्यधीरभूत्।। ४६।। समं तेन वयस्येन, कलाचार्यस्य सन्निधौ । सनत्कुमारः सकलाः, कलाः जग्राह लीलया ।। ४७।। अमन्त्रयन्त्रनिश्शेष-कामिनीजनकार्मणम् । लावण्यपुण्यं तारुण्यं, कुमारः प्राप स क्रमात् ।। ४८।। उद्यानं मकरन्दाख्यं, वसन्तसमयेऽन्यदा । समं महेन्द्रसिंहेन, क्रीडायै भूपभूर्ययो ।। ४९।। नानाक्रीडाभिरक्रीड-त्सत्रा मित्रेण तत्र सः । तदा च राज्ञोऽश्वपति-वर्यान्वाहानढोकयत् ।। ५०।। हयं जलधिकल्लोला-ह्वयं भूपभुवोऽप्यधात् । कुमारोऽपि तमारोह-त्तद्गतिं द्रष्टुमुत्सुकः ।।५१।। कशां चोत्क्षिप्य तं यावत्, प्रेरयामास भूपभूः । सोऽश्वस्तावद्दधावो-र्वायुं जेतुमना इव ।। ५२।। यथा यथाकृषद्वल्गां, रक्षितुं तं नृपाङ्गजः । स वक्रशिक्षितो वाहो, बह्वधावत्तथा तथा ।। ५३।। राज्ञां राजकुमाराणां, सादिनां धावतामपि । मध्यात्कुमारं हत्वाऽश्वः, क्षणात्सोऽगाददृश्यताम् ।। ५४।। llol Isl Isil 116ll Nar Mel || ||७|| ||sil llosil ७०१ || | || 1161 101 in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy