SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ७०० nol संयतीयनाम Moll अष्टादश मध्ययनम् lish llsil अस्याढ्यस्य न्यस्य पृष्टे, पात्रमत्यूष्णपायसम् । चेद्विभो ! भोजयसि मां तदा भुझे भवगृहे ।।२९।। स्थालमन्यस्य विन्यस्य, पृष्ठे त्वां भोजयाम्यहम् । नृपेणेत्युदितो रुष्टो, दुष्टो भूयोऽवदद् व्रती ।।३०।। पृष्ठेऽस्यैव न्यस्य पात्रं, भुञ्जे गच्छामि वाऽन्यतः । तद्भक्तः स ततो भूपः, प्रत्यपद्यत तद्वचः ।।३१।। नृपादेशात्ततः पृष्ठे, तेन दत्ते स तापसः । अत्युष्णपायसं स्थालं, न्यस्य भोक्तुं प्रचक्रमे ।।३।। श्राद्धोऽपि स्थालतापं तं, सोऽधिसेहे विशुद्धधीः । स्वस्यैव कर्मणोऽयं हि, विपाक इति चिन्तयन् ।।३३।। भुक्ते भिक्षौ श्रेष्ठिपृष्ठात्समं त्वग्मांसशोणितैः । जनैः स्थालं तदुत्खातं, ततः श्रेष्ठी गृहं ययौ ।।३४।।. सत्कृत्य क्षमयित्वाऽथ, स्वजनान् पूर्जनांस्तथा । जिनधर्मो गुरूपान्ते, प्रव्रज्य जिनधर्मवित् ।।३५।। पुरान्निर्गत्य विहिता-ऽनशनोऽद्रिशिरस्थितः । पक्षं पक्ष कृतोत्सर्गः, क्रमादस्थाञ्चतुर्दिशम् ।। ३६ ।। (युग्मम्) गृध्रकाकादिभिर्भक्ष्य-माणपृष्ठोऽपि तत्र सः । सहमानो व्यथामुग्रां, स्मरन् पञ्चनमस्क्रियाः ।।३७।। विपद्य प्रथमस्वर्गे, बभूव त्रिदशाधिपः । आनुषङ्गि फलं ह्येतत्, जिनधर्मविधायिनाम् ।।३८।। (युग्मम्) तापसोऽपि मृतस्तेना-ऽऽभियोग्येन कुकर्मणा । ऐरावणाह्वयो हस्ती, जज्ञे तस्यैव वाहनम् ।।३९।। ततश्च्युत्वा भवे भ्रान्ता, कृत्वा बालतपः क्वचित् । यक्षोऽसिताक्षनामाभू-जीवस्तस्य त्रिदण्डिनः ।। ४०।। इतश्चात्रैव भरते, विषये कुरुजङ्गले । अस्ति स्वस्तिपदं श्रीम-नगरं हस्तिनापुरम् ।। ४१।। ७०० |lol ||Gll lol For Person Pause Only lal
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy