SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ३२ आयरिएहिं वाहित्तो, सिणीओ ण कयाइवि । पसायपेही णिआगट्टी उवचिट्ठे गुरुं सया ।। २० ।। व्याख्या – आचार्यैर्गुरुभिः 'वाहित्तोत्ति' व्याहृतः शब्दितः तूष्णीकस्तूष्णींशीलो न कदाचिदपि ग्लानाद्यवस्थायामपि भवेत्, किन्तु प्रसादप्रेक्ष प्रसादोऽसौ मे यदन्यसद्भावेऽपि गुरवो मामादिशन्तीति प्रेक्षितुं विचारयितुं शीलमस्येति प्रसादप्रेक्षी, नियागार्थी मोक्षार्थी उपतिष्ठेत्, मस्तकेन वन्दे इत्यादि वदन् सविनयमुपसर्पेत् गुरुं धर्माचार्यादिकं सदेति सूत्रार्थः ।। २० ।। तथा - आलवंते लवंते वा, ण णिसीज्ज कयाइवि । चइऊण आसणं धीरो, जओ जत्तं पडिस्सुणे ।। २१ । । ॥६॥ व्याख्या - आलपति सकृद्वदति, लपति वारंवारं गुरौ इति गम्यते, न निषीदेत्, न निषण्णो भवेत्, कदाचिदपि, व्याख्यानादिकार्येण ॥ व्याकुलतायामपि, किन्तु त्यक्त्वा अपहाय आसनं पादपुञ्छनादि, धीरो बुद्धिमान्, यतो यत्नवान्, 'जत्तंति' प्राकृतत्वात् जकारस्य बिन्दुलोपे तकारस्य च द्वित्वे यद्गुरव आदिशन्ति तत्प्रतिशृणुयादवश्यविधेयतयाऽभ्युपगच्छेदिति सूत्रार्थ: ।। २१ । । अथ पृच्छाविनयमाह - आसणगओ ण पुच्छिज्जा, णेव सिज्जागओ कया । आगम्मुकुडुओ संतो, पुच्छिज्जा पंजलीउडो ।। २२ ।। व्याख्या - आसनगत आसनासीनो न पृच्छेत्सूत्रादिकमिति शेषः, नैव शय्यागतः संस्तारकस्थितस्तथाविधावस्थां विनेति गम्यते, कदाचिद्बहुश्रुतत्वेऽपि, अयंभावः - बहुश्रुतेनापि संशये सति प्रष्टव्यं पृच्छता च गुरोरवज्ञा न कार्या, सदापि गुरुविनयस्यानतिक्रमणीयत्वादिि Jain Education Intersalonal For Personal & Private Use Only llll ॥६७॥ ॥६॥ ప్రాతాల్లో రైతాల్ विनयनाम प्रथम मध्ययनम् ३२ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy