SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ NOM उत्तराध्ययन सूत्रम् lol ३१ isil lls ण पक्खओ ण पुरओ, णेव किञ्चाण पिटुओ । ण मुंजे ऊरुणा ऊरुं, सयणे णो पडिस्सुणे ।।१८।। विनयनाम ||७|| प्रथमllell व्याख्या - न पक्षतो दक्षिणादिपार्श्वमाश्रित्योपविशेदिति सर्वत्र गम्यं, तथोपवेशने हि तत्पङ्क्तिप्रवेशादात्मनोऽपि मध्ययनम् ॥ तत्साम्यदर्शनरूपोऽविनय: स्यात्, पाठनादि समये च गुरोरपि तन्मुखप्रेक्षणे वक्रावलोकनेन स्कन्धकन्धरादिबाधा भवेदिति । तथा न il पुरतोऽग्रतः, तत्र हि वन्दारुलोकस्य गुरुमुखादर्शनादिना अप्रीतिः स्यादिति । तथा नैव कृत्यानां कृतिकर्मााणां गुरूणामित्यर्थः, पृष्ठतः । | पृष्ठदेशमाश्रित्य तत्र द्वयोरपि मुखाप्रेक्षणेन न तादृशो रस: स्यादिति, तथा न युञ्जयान्न सङ्घट्टयेत् अतिसंवेशदेशोपवेशनादिना ऊरुणा आत्मीयेन ॥ Moll ऊरुं गुरुसम्बधिनं, तथाकरणेऽत्यन्ताविनयप्रसङ्गात्, उपलक्षणं चैतत् शेषाङ्गस्पर्शत्यागस्य । तथा शयने शय्यायां शयित उपविष्टो वा न ॥ MO प्रतिशृणुयात् न स्वीकुर्याद्गुरुवाक्यमिति शेषः, अयं भावः-शय्यास्थित: शिष्यो गुरुणा कृत्यं प्रति प्रोक्तो न तत्र स्थित एव करोम्येवेदमित्यादि । Mell वदेत्, किन्तु गुरुवचः श्रवणानन्तरं तत्कालमेव कृताञ्जलिगुरुपार्श्वमागत्य पादपतनपूर्वमनुगृहीतोऽहमिति मन्यमानो भगवनिच्छाम्यऽनुशिष्टिमिति ॥ Mवदेदिति सूत्रार्थः ।।१८।। तथा – Mall व पल्हत्थिअंकुज्जा, पक्खपिंडं व संजए । पाए पसारए वावि, ण चिढे गुरुणंतिए ।।१९।। Well व्याख्या - नैव पर्यस्तिकां जानुजङ्घोपरि वस्त्रवेष्टनरूपां कुर्यात्, पक्षपिण्डं वा बाहुद्वयेन कायपिण्डनात्मकं, संयतः साधुः, तथा पादौ ॥ प्रसारयेद्वापि नैवेतीहापि योज्यम्, अत्र वा शब्दः समुञ्चये, अपि शब्दस्तु इतस्ततोऽपि नैव निक्षिपेदिति दर्शनार्थः । अन्य - न तिष्ठेन्नासीत हा Ill गुरूणामन्तिके अत्यन्तसन्निधौ किन्तूचितप्रदेश एव, अन्यथा अविनयदोषसम्भवात्, अनेन चावष्टम्भादिकमपि तत्र नैव कुर्यादिति सूचितमिति । Nell सूत्रार्थः ।।१९।। पुनः प्रतिश्रवणविधिमाह - Mall ३१ liol in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy