________________
tan
Isl
16
||roll
उत्तराध्ययन
सूत्रम् ६९६
lel
foll Toll
incli संयतीयनाम
अष्टादशमध्ययनम्
तं विना ते ततः सर्वे, प्लष्टा दुष्टा विपेदिरे । मात्रिवाहकजीवत्वे-नाऽटव्यां चोपपेदिरे ।। ७८।। पिण्डीभूय स्थितास्तेऽथ, तत्रायातस्य हस्तिनः । पादेन मर्दिता मृत्वा, चिरं भ्रमुः कुयोनिषु ।।७९।। पुण्यं च प्राग्भवे किञ्चि-त्कृत्वा ते सङ्घदस्यवः । जज्ञिरे चक्रिण: षष्टि-सहस्राणि सुता इमे ।।८।। प्राग्भवैर्दुर्भवस्तस्य, बहुभुक्तस्य कर्मणः । शेषांशेन मृता एते, सममेव महीपते ! ।।८।। कुलालोऽप्यन्यदा मृत्वा, सोऽभूत् क्वापि पुरे धनी । तत्रापि सुकृतं कृत्वा, विपद्य क्वाप्यभूनृपः ।। ८२।। भूयोऽपि सोऽन्यदा दीक्षां, लात्वा मृत्वा सुरोऽभवत् । ततश्च्युतश्च त्वं जह्व-जातो जातोऽसि भूपते ! ।। ८३।। भगीरथक्षोणिधवोऽथ वाचं, वाचंयमस्येति निशम्य सम्यक् । सुश्राद्धधर्म प्रतिपद्य हृद्यं, सद्योऽनवद्यः स्वपुरी जगाम ।। ८४।। इति सगरचक्रवर्तिकथालेश: ।। ३५।। चइत्ता भारहं वासं, चक्कवट्टी महिड्डीओ । पव्वज्जमब्भुवगओ, मघवं नाम महायसो ।।३६।। व्याख्या - सुगम, तत्कथालेशस्त्वेवं, तथा हि - अभूदिहैव भरते, महीमण्डलसत्पुरे । वासुपूज्यप्रभोस्तीर्थे, नाम्ना नरपतिर्नृपः ।।१।। स्वप्रजावत् प्रजाः सम्यक्, पालयित्वा चिरं स राट् । सन्त्यज्य राज्यमन्येद्यु-विरक्तो व्रतमाददे ।।२।।
sil IIGll
ell
lol leel
Jell Jell Isi
16
||
||al
६९६
all
Join Education international
lal Ban
www.jainelibrary.org
For Personal & Private Use Only