________________
उत्तराध्ययन
सूत्रम्
६९२
lell
॥७॥
Jain Education Intern
नागलोकं पुनर्वीक्ष्य, क्षुभितं ज्वलनप्रभः । कोपावेशाद्बभूवाशु, प्रज्वलज्वलनप्रभः ।। २८ ।। सोऽथ दृष्टिविषान् प्रैषी-त्तद्वधाय महोरगान् । तैश्च निर्गत्य ते दृष्टा, दृष्टिभिर्विषवृष्टिभिः ।। २९ । । ततस्ते भस्मतां भेजुः सर्वेऽपि सगरात्मजाः । तं चोत्पातं प्रेक्ष्य चक्रि-चक्रं चक्रन्द तद्भृशम् ।। ३० ।। ततः सैन्यानिति प्रोचे, सचिवः शोचितैरलम् । नावश्यम्भाविनं भाव-मतिक्रामति कोऽपि हि ! ।। ३१ । । तीर्थसेवातीर्थरक्षाकरणोपक्रियादिभिः । कृतपुण्यार्जनाः शोच्या, न चामी स्वामीसूनवः ।। ३२ ।। द्विमुच्य शुचं सर्वैः, क्षिप्रं प्रस्थियतामितः । स्थाने सोपद्रवे स्थातुं, धीधनानां हि नोचितम् ।। ३३ ।। इति मन्त्रिगिरा त्यक्ता - क्रन्दास्ते चलितास्ततः । इत्ययोध्यामुपागत्य, सामन्ताद्या व्यचिन्तयन् ।। ३४ ।। दग्धा: स्वामिसुताः सर्वे ऽप्यागता वयमक्षताः । लज्जाकरमिदं राज्ञो ऽग्रे कथं कथयिष्यते ? ।। ३५ ।। प्रविशामस्ततो वह्नि-मनन्यगतिका वयम् । तानिति ध्यायतोऽभ्येत्य, विप्रः कोपीत्यभाषत ।। ३६ ।। कर्मणा शुभमन्यद्वा नाङ्गिनां किं भवे भवेत् ? । तद्व्याकुला भवत मा, वक्ष्याम्येतदहं प्रभोः ।। ३७ ।। इत्युदित्वा द्विजः कञ्चिदनाथं शवमुद्वहन् । गत्वा राजकुलद्वारे, व्यलापीदुञ्चकैर्मुहुः ।। ३८ ।। तत् श्रुत्वा चक्रिणाऽऽहूय, पृष्टः किं रोदिषीति सः ? । प्रोचे ममैक एवासौ, सूनुर्दष्टो महाहिना ।। ३९ ।। प्राप्तो निश्चेष्टतां देव !, तदेनं जीवयाऽधुना । जाङ्गलीकमथादिक्ष तत्र कर्मणि भूधवः ।। ४० ।।
For Personal & Private Use Only
కావాలా లో త త త త త త
|| संयतीयनाम
( F S S S S S S T F S S S లో లో లె లె
अष्टादश
मध्ययनम्
६९२
www.jainelibrary.org