________________
उत्तराध्ययनसूत्रम्
६९९
Jain Education International
तेऽपि गत्वाऽऽ गताः प्रोचु- र्नास्त्यऽन्योत्राऽद्रिरीदृशः । ततो जगाद जह्रुस्त- द्रक्षामस्यैव कुर्महे ।। १५ ।। कालानुभावतो लुब्धा, भाविनो भाविनो जनाः । उपद्रोष्यन्ति तेह्यत्र, तद्रक्षास्य महाफला ! ।। १६ ।। इत्युक्त्वा दण्डरलेन, जह्नुस्तं परितो गिरिम् । सहस्रयोजनोद्वेधां विदधे परिखां क्षणात् ।। १७ ।। तदा च दण्डरत्नेन, तेन दारयता महीम् । क्रीडागेहानि नागानां, मृत्पात्राणीव पुस्फुटुः ।। १८ ।। तं प्रेक्ष्योपद्रवं क्षुब्धा, भुजङ्गा ज्वलनप्रभम् । उपेत्य स्वप्रभुं सौध भङ्गव्यतिकरं जगुः ।। १९ । । सोऽपि ज्ञात्वाऽवधेः क्रुद्धो ऽभ्येत्योचे सगराङ्गजान् । भुवं भवद्भिर्भिन्दानैर्भोः ! किमेतत्कृतं जडैः ? ।। २० ।। उपता हि युष्माभिर्नागास्तद्नेहभेदनैः । ते च क्रुद्धा हनिष्यन्ति, युष्मान् सिंहा इव द्विपान् ।। २१ । । तन्नूनं स्ववधायैव, प्रयत्नो भवतामयम् । पतङ्गानां दीपपात-कृते पक्षबलं यथा ।। २२ ।। जह्रुर्जग तीर्थरक्षा - कृतेऽस्माभिरदः कृतम् । तन्मन्तुमेनं भोगीन्द्र ! क्षमस्वाज्ञानसम्भवम् ।। २३ ।। आगः सोढमिदं नैवं पुनः कार्यमिति ब्रुवन् । अहीन्द्रोऽगात्ततो जह्रु रिति दध्यौ सहानुजैः ।। २४ ।। परिखाऽसौ विना वारि, पांशुभिः पूरयिष्यते । तदेनां पूरयामोऽथ पुण्यैर्मन्दाकिनीजलैः ।। २५ ।। तत्रार्थे सोदराः सर्वे, ज्यायांसमनुमेनिरे । यादृशं भवितव्यं स्यात्सहायाः खलु तादृशाः ! ।। २६ ।। ततः स दण्डेनाऽऽकृष्य, तत्र चिक्षेप जाह्रवीम् । उपाद्रूयन्त भूयोऽपि भोगिगेहास्तदम्भसा ।। २७ ।।
For Personal & Private Use Only
loll
||७|| संयतीयनाम
अष्टादश
मध्ययनम्
STT STETES
६९१
www.jainelibrary.org