________________
॥७॥
उत्तराध्ययन
सूत्रम् ६९०
all No संयतीयनाम
all Vell अष्टादश
मध्ययनम् ||sil ||७|| ||७||
A
Vol
lol I6I
Illl |lol
तयोर्महिष्यो विजया-यशोमत्यौ बभूवतुः । शक्रेशानाभ्यां स्वकल्प-सारे देव्याविवार्पिते ! ।।२।। तयोश्चतुर्दशस्वप्न-सूचितौ सद्गुणाञ्चितौ । सुतावभूतामजित-सगरौ जिनचक्रिणी ।।३।। जितशत्रुसुमित्राभ्या-मेकदा स्वीकृते व्रते । नृपोऽभूदजितस्वामी, युदराट् सगरः पुनः ।।४।। न्यस्यान्यदाऽनुजं राज्ये, प्रावाजीदजितप्रभुः । ततो बभूव सगर-श्चक्रवर्ती महाभुजः ।।५।। क्रमात्षष्टिसहस्राणि, तनयास्तस्य जज्ञिरे । तेषु ज्येष्ठोऽभवजह्वः, सोऽन्यदाऽप्रीणयन्नृपम् ।।६।। ततः पित्रा वरे दत्ते, सोऽवादीत्त्वत्प्रसादतः । दिदृक्षेऽहं महीं भ्रातृ-युक्तो दण्डादिरत्नवान् ।।७।। राजाऽनुज्ञातोऽथ जह्वः, ससैन्यः प्रस्थितस्ततः । विहिताश्चर्यसन्दर्भा, रत्नगर्भा विलोकयन् ।।८।। चतुर्योजनविस्तारं, योजनाष्टकमुन्नतम् । प्राप्तोऽष्टापदमारोह-त्सह सर्वः सहोदरैः ।।९।। (युग्मम्) क्रोशद्वयपृथु क्रोश-त्रयोचं योजनायतम् । चतुर्मुखं रत्नमयं, तत्र चैत्यं ददर्श सः ।।१०।। ऋषभाद्यर्हतामाः, स्वस्वमानादिशोभिताः । स्तूपांश्च भरतादीनां, शतं तत्र ननाम सः ।।११।। सुषमां तस्य शैलस्य, चैत्यस्य च विलोकयन् । पीतामृत इवात्यर्थं, जहर्ष सगराङ्गजः ।।१२।। केनेदं कारितं चैत्य-मित्यमात्यं च पृष्टवान् ? । सोप्यूचे भरताख्येन, चक्रिणा पूर्वजेन वः ।।१३।। अथाख्यत्सेवकान् जह्व-रीदृशं भरतेऽपरम् । पश्यताद्रिं यथाऽस्माभिः, कार्यते चैत्यमीदृशम् ।।१४।।
||७|| Ill
Is
Iroll Ill
oll
lel
sil
Neil
llall llell roll
६९०
ller
lel
in Education in
For Personal & Private Use Only
ile.llyww.jainelibrary.org