________________
उत्तराध्ययन
सूत्रम्
संयतीयनाम अष्टादशमध्ययनम्
६८८
isi
ऋषभस्वामिनिर्वाणा-स्पदेऽष्टापदपर्वत्ते । चैत्ये स्वकारिते भक्तया, जिनबिम्बानि पूजयन् ।।९।। साधर्मिकाणां वात्सल्यं, कुर्वन्नाश्रितवत्सलः । पूर्वलक्षाणि षट् क्षोणी-हर्यश्वः सोऽत्यवाहयत् ।।१०।। (अष्टभिः कुलकम्) अन्यदा प्रातरभ्यक्तो-द्वर्तितस्त्रपिताङ्गकः । आदर्शसदनं सोऽगा-त्सर्वालङ्कारभूषितः ।।११।। तत्राऽऽत्मदर्श महति, पश्यंश्चक्री निजं वपुः । भ्रष्टाङ्गुलीयकामेकां, ददर्श स्वकराङ्गुलीम् ।।१२।। अशोभमानां तां प्रेक्ष्य, प्रेक्षावान् माधवाग्रणी: । सकलानप्यलङ्कारा-नेकैकमुदतारयत् ।।१३।। तत उज्झितपाथोज, पद्माकरमिवाऽऽत्मनः । विलोक्य वपुरश्रीक-मिति दध्यो धराधवः ।।१४।। अहो ! आगन्तुकेरैव-द्रव्यैरङ्गं विराजते । स्वाभाविकं तु सौन्दर्य, किमप्यस्य न दृश्यते ! ।। १५ ।। स्वरूपासारतां वक्ति, यस्य संस्कारसारता । मोहादेव तदप्यमं, जना जानन्ति मञ्जलम् ! ।।१६।। मनोज्ञमप्यन्नपान-पुष्पगन्धांशुकादिकम् । विनश्यत्यस्य सङ्गेन, ब्रह्मचर्यमिव स्त्रियाः ! ।।१७।। तदहो निर्विवेकत्वं, विदुषामपि बालवत् । ये देहस्येदृशस्यापि, कृते पापानि कुर्वते ! ।।१८।। तन्मोक्षदायि मानुष्यं, शरीरार्थेन पाप्मना । द्यूतेनेव धुसद्रलं, युक्तं नाशयितुं न मे ।।१९।।
ध्यायन्नित्यादि सम्प्राप्तः, संवेगमधिकाधिकम् । आरूढः क्षपकश्रेणी, निश्रेणी शिवसद्यनः ।।२०।। १. क्षोणीहर्यश्व: भूमीन्द्रः ।।
Wel Ish
||
le
16
६८८
Isol
Isll Hell
lish
For Personal Private Use Only