________________
उत्तराध्ययनसूत्रम्
६८७
००००
एअं पुण्णपयं सोचा, अत्थधम्मोवसोहिअं । भरहोवि भारहंवासं, चिचा कामाई पव्वए ।। ३४ ।।
व्याख्या
एतत् पूर्वोक्तं पुण्यहेतुत्वात् पुण्यं पद्यते गम्यतेऽर्थोऽनेनेति पदं पुण्यं च तत् पदं च पुण्यपदं, क्रियावादादिलक्षणनानारुचिवर्जनादिज्ञापकं शब्दसन्दर्भं श्रुत्वा अर्थोऽर्थ्यमानतया स्वर्गापवर्गादिः, धर्मस्तदुपायभूतः श्रुतधर्मादिस्ताभ्यामुपशोभितं अर्थधर्मोपशोभितं, भरतः प्रथमचक्री, अपिशब्द उत्तरापेक्षया समुच्चये, भारतं वर्षं क्षेत्रं त्यक्त्वा 'कामाइंति' चस्य गम्यत्वात्, कामांश्च 'पव्वएत्ति' प्राव्राजीत्, तत्कथाशस्त्वेवम् । तथाहि
Jain Education intallonal
-
अत्रैव भरते शक्रा-ज्ञया श्रीदेन निर्मिता । अस्त्ययोध्या पुरी स्वर्ग प्रतिस्पर्द्धिसमृद्धिका ।। १ ।। प्रथमः प्रथितः पृथ्व्यां, पुत्रः श्रीवृषभप्रभोः । सार्वभौमोऽभवत्तत्र, भरतो भरतेश्वरः ।। २ ।। चतुर्दशानां रत्नानां, विभुर्नवनिधिप्रभुः । द्वात्रिंशता सहस्त्रैर्भू-भुजां सेवितपत्कजः ।। ३ ।। लक्षैश्चतुरशीत्याऽश्व-रथेभानां समाश्रितः । ग्रामाणां च पदातीनां, कोटिषण्णवतेः पतिः ।। ४ ॥ लोकैर्द्वात्रिंशत्सहस्र- देशानां धृतशासनः । सत्पत्तनसहस्राणां द्विश्चतुर्विंशतेर्विभुः ।। ५ ।। द्वासप्ततेः श्रेष्ठपुर - सहस्राणामधीश्वरः । सहस्रोनं द्रोणमुख लक्षं च परिरक्षयन् ।। ६ ।। गुह्यकानां षोडशभिः, सहस्त्रैः सेवितोऽनिशम् । षट्खण्डं भरतक्षेत्र मखण्डाज्ञः प्रपालयन् ।। ७ ।। चतुषष्टिसहस्रान्तः पुरस्त्रीभिः सहान्वहम् । क्रीडन् पूर्वोक्तपुण्यद्रु-पुष्पाभं सौख्यमाश्रयन् ।। ८ ।।
For Personal & Private Use Only
BEST
पूरी पूरी पूरी पूरी पूरी क
संयतीयनाम
अष्टादश
मध्ययनम्
६८७
www.jainelibrary.org