SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ iial llall उत्तराध्ययन सूत्रम् ६८५ in मुक्त्वाऽतिशयान्तरमाह-आत्मनश्च परेषाञ्च आयुर्जानामि, यथा येन प्रकारेण स्यात्तथा तेनैव प्रकारेण न त्वन्यथेति भाव इति सूत्रद्वयार्थः ।।२९।। संयतीयनाम । इत्थं प्रसङ्गादपृष्टमपि स्ववृत्तान्तमाचख्योपदेष्टुमाह - अष्टादश मध्ययनम् नाणारुइं च छंदं च, परिवज्जिज संजए । अणट्ठा जे अ सव्वत्था, इइ विजामणुसंचरे ।।३०।। व्याख्या - नानाऽनेकधा रुचिं च प्रक्रमात् क्रियावाद्यादिमतविषयां वाञ्छां, छन्दश्च स्वमतिकल्पितमाशयं, इहापि नानेति 8 सम्बन्धादनेकविधं परिवर्जयेत् संयतः । तथाऽनर्था निःप्रयोजना: ये च व्यापारा इति गम्यं, 'सव्वत्था' अत्राकारस्यालाक्षणिकत्त्वात्सर्वत्र lol क्षेत्रादौ तानपि परिवर्जयेदिति सम्बन्ध इत्येवं रूपां विद्यां सम्यग्ज्ञानरूपां अनु लक्षीकृत्य सञ्चरेः सम्यक् संयमाध्वनि यायाः इति सूत्रार्थः ।।३०।। तथा - पडिक्कमामि पसिणाणं, परमंतेहिं वा पुणो । अहो उठ्ठिए अहोरायं, इइ विज्जा तवं चरे ।।३१।। व्याख्या - प्रतिक्रमामि प्रतिनिवर्ते 'पसिणाणंति' प्रश्नेभ्यः शुभाशुभसूचकेभ्योऽङ्गुष्ठप्रश्नादिभ्यः, तथा परे गृहस्थाः तेषां कि मन्त्रास्तत्कार्यालोचनरूपास्तेभ्यो, वा समुञ्चये, पुनर्विशेषणे, अतिसावद्यत्वं तेषां विशिनष्टि, सोपस्कारत्वात्सूत्रस्य यश्चैवं संयम प्रति उत्थानवान् स । 'अहो' ! इति विस्मये, उत्थितो धर्मम्प्रत्युद्यतः, कश्चिदेव हि महात्मा एवंविधः स्यादित्याश्चर्य, अहोरात्रं अहर्निशं, इति एतदनन्तरोक्तं 'विवत्ति' a६८५ ||oll foll Ifoll llall lisil For Personal Private Use Only w wew.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy