SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ६८४ Isl Isl !ell lei Isll IsI Ish Isi llol Ill सव्वे ते विइआ मझं, मिच्छादिट्ठी अणारिआ । विजमाणे परे लोए, सम्मं जाणामि अप्पयं ।। २७।। का संयतीयनाम व्याख्या - सर्वे ते क्रियादिवादिनो विदिता मम यथाऽमी मिथ्यादृष्टयः तत एवानार्याः पशुहिंसाद्यनार्यकर्मप्रवृत्ताः, कथमीदृशास्ते तव अष्टादश मध्ययनम् विदिता: ? इत्याह-विद्यमाने परलोकेऽन्यजन्मनि सम्यग् जानाम्यात्मानं भवान्तरादागतं, तत: परलोकात्मनोः सम्यग् वेदनान्मम ते तादृशा l विदितास्ततोऽहं तदुक्ताकर्णनादेः संयच्छामि इति सूत्रार्थः ।। २७।। कथमात्मानमन्यभवादागतं वेत्सीत्याह - Isl अहमासि महापाणे, जुइमं वरिससओवमे । जा सा पाली महापाली, दिव्वा वरिससओवमा ।।२८।। 6 व्याख्या - 'अहमासित्ति' अहमभूवं महाप्राणे ब्रह्मलोकविमाने द्युतिमान् वर्षशतजीविना उपमा यस्याऽसौ वर्षशतोपमः, मध्यपदलोपीसमासः, is अयमर्थो यथेह सम्प्रति वर्षशतजीवी पूर्णायुरुच्यते तथाऽहमपि तत्र पूर्णायुरभूवं, तथाहि-या सा पालिरिव पालि: जीवितजलधारणाद्भवस्थितिः, सा क चोत्तरत्र महाशब्दोपादानादिह पल्योपमप्रमाणा, महापाली सागरोपमप्रमाणा, तस्या एव महत्वात्, दिवि भवा दिव्या वर्षशतैः I केशखण्डोद्धारहेतुभिरुपमा अर्थात् पल्यविषया यस्यां सा वर्षशतोपमा, तत्र मे महापालीदशकरूपा दिव्या भवस्थितिरासीदित्युपस्कारः, ततश्चाहं ॥ वर्षशतोपमायुरभूवमिति भावः ।।२८।। से चुए बंभलोआओ, माणुस्सं भवमागओ । अप्पणो अपरेसिं च, आउं जाणे जहा तहा ।। २९।। व्याख्या - से इति अथ स्थितिपालनानन्तरं च्युतो ब्रह्मलोकात् मानुष्यं भवमागत इत्थमात्मनो जातिस्मरणात्मकमतिशय- ६८४ ial Nor lish JainEducation interestor For Personal Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy