________________
16
ल
ler
Mall
lisil
उत्तराध्ययन- क्षत्रियः, स चात्र प्रस्तावात् महावीरः, परिनिर्वृतः कषायानलविध्यापनाच्छीतीभूतः, विद्याचरणाभ्यां क्षायिकज्ञानचारित्राभ्यां सम्पन्नो यः स तथा, संयतीयनाम सूत्रम्
Ioll 6. अत एव सत्यः सत्यवाक्, सत्यपराक्रमः सत्यवीर्यः, इति सूत्रार्थः ।।२४।। तेषां फलमाह -
अष्टादश६८३
to मध्ययनम् पडंति नरए घोरे, जे नरा पावकारिणो । दिव्वं च गई गच्छंति, चरित्ता धम्ममारिअं ।। २५ ।।
व्याख्या -- पतन्ति नरके घोरे रौद्रे ये नरा उपलक्षणत्वादन्ये च जीवाः, पापमिह प्रस्तावादसत्प्ररूपणारूपं कर्तुं शीलं येषां ते पापकारिणः, ७॥ दिव्यां देवसम्बन्धिनीं सर्वगतिप्रधानां वा सिद्धिरूपां गतिं गच्छन्ति चरित्वा आसेव्य धर्ममिह सत्प्ररूपणारूपं आर्यमुत्तमं, ततोऽसत्प्ररूपणां हित्वा । ॥ सत्प्ररूपणापरेणैव भवता भवितव्यमिति भावः, इति सूत्रार्थः ।। २५।। अथ कथममी पापकारिणः इत्याह -
मायाबुइअमेअंतु, मुसाभासा निरस्थिआ । संजममाणोवि अहं, वसामि इरिआमि अ ।।२६।।
व्याख्या - मायया शाठ्येन 'बुइअंति' उक्तं मायोक्तं एतदनन्तरोक्तं क्रियादिवादिभिरुक्तं, तुरेवकारार्थः स च मायोक्तमेवेत्यत्र योज्य:, । ॥6॥ अत एव तेषां मृषा भाषा, निरथिका सम्यगभिधेयशून्या, ततः 'संजममाणोवित्ति' अपिरेवकारार्थः, ततः संयच्छन्नेवोपरमन्नेव तदुक्तिश्रवणादेः, कि ॥ अहमित्यात्मनिर्देशो विशेषेण तं स्थिरीकर्तुं वसामि तिष्ठामि उपाश्रय इति शेषः, 'इरिआमिअत्ति' ईरे च गच्छामि च गोचरादाविति सूत्रार्थः ।। २६।। कुतस्त्वं तदुक्ताकर्णनादुपरमसि ? इत्याह -
६८३
IVEN
llel
JainEducational
For Personal Private Use Only