________________
॥७॥
Nel
||Gll
उत्तराध्ययन
सूत्रम् ६८२
Mer क्रियावादिनः ते अस्तिक्रियाविशिष्टमात्मानं मन्यमाना अपि विभुरविभुः कर्ता अकर्ता मूर्तोऽमूर्तोऽसावित्याद्येकान्तवादमभ्युपगताः, ॥ संयतीयनाम
॥ कुत्सितभाषणञ्चैतत् युक्तिबाधितत्वात् । इह हि विभुत्वं व्यापित्वं, तश्चात्मनो न घटते, देह एव तल्लिङ्गभूतचैतन्योपलब्धेः । न च वाच्यं आत्मनो अष्टादश&l अव्यापित्वे तद्गुणयोधर्माधर्मयोरपि अव्यापित्वं, तथा च द्वीपान्तरगतदेवदत्तादृष्टा-कृष्टमणिमुक्तादीनामिहागमनं स्यादिति, भिन्नदेशस्थ- मध्ययनम् ॐ स्याप्ययस्कान्तादेर्लोहाद्याकर्षणशक्तिदशनाच्छरीरव्यापिनोरपि धर्माऽधर्मयोर्दूरस्थस्याऽपि वस्तुन आकर्षणमुपपद्यत एवेति न विभुत्वमात्मनो ॥ युज्यते । तथाऽविभुरप्यङ्गुष्टपर्वमात्राद्यधिष्ठानो यैरिष्यते तेषामपि शेषावयवेषु चैतन्याभावाच्छस्त्रादिना छेदने वेदनानुभवाभावः स्यान्न चैवं ॥ दृश्यते, एवं कर्तृत्वाद्येकान्तवादोऽपि स्वधियाऽपासनीयः । अक्रियावादिनस्तु अस्तिक्रियाविशिष्टमात्मानं नेच्छन्त्येव, तदप्यसङ्गततरं, अहं ॥ सुखीत्यादिप्रत्ययानामन्यथानुपपत्या मानसप्रत्यक्षादिप्रमाणगम्यत्वात् तस्य । विनयवादिनस्तु सुरनृपमुनिगजवाजिगोमृगकरभमहिषका कुक्कुरछगलशृगालकाकमकरादिनमस्कारकरणादेव कर्मक्षयमभ्युपगताः, दुष्टञ्चैतत्, लोकसमयवेदेषु गुणाधिकस्यैव विनयार्हताय प्रतीतत्वात्, ॥ तदन्यविनयस्य चाशुभफलत्वात् । अज्ञानवादिनश्च ज्ञानस्य मोक्षं प्रत्यनुपयोगित्वात् केवलं कष्टमेव कार्यं, न हि कष्टविनेष्टसिद्धिरिति प्रतिपन्नाः, ॥ इदमप्ययुक्तमेव, ज्ञानमन्तरेण हेयोपादेयनिवृत्तिप्रवृत्त्यभावात्, ज्ञानं विना च भूयोपि कष्टानुष्ठानं पशोरिव व्यर्थमेव स्यादिति सर्वेऽप्यमी | कुत्सितमेव प्रभाषन्ते इति स्थितमिति सूत्रार्थः ।।२३।। न चैतत्स्वाभिप्रायेणैवोच्यते इत्याह -
इइ पाउकरे बुद्धे, नायए परिनिव्वुडे । विजाचरणसंपन्ने, सचे सञ्चपरक्कमे ।। २४।। व्याख्या - इति एते क्रियावाद्यादयः कुत्सितं प्रभाषन्ते इत्येवं रूपं 'पाउकरेत्ति' प्रादुरकार्षीत् प्रकटितवान् बुद्धो ज्ञाततत्वो, ज्ञात एव ज्ञातकः ६८२
6
dan Education
For Personal & Private Use Only
Hollwww.jainelibrary.org