________________
उत्तराध्ययन
सूत्रम् ६७६
मिए छुभित्ता हयगओ, कंपिल्लुजाणकेसरे । भीए संते मिए तत्थ, वहेइ रसमुच्छिए ।।३।।
io संयतीयनाम
अष्टादशव्याख्या - मृगान् क्षिप्त्वा प्रेर्य हयगतोऽश्वारूढः काम्पील्यस्य सम्बन्धिनि केसरनाम्नि उद्याने भीतान्त्रस्तान् श्रान्तानितस्ततः प्रेरणेन खिन्नान् ।
मध्ययनम् मितान् परिमितान्तत्र तेषु मृगेषु मध्ये 'वहेइत्ति' हन्ति, रसमूर्छितस्तन्मासास्वादलुब्ध इति सूत्रद्वयार्थः ।।३।। तदा च यदभूत्तदाह -
अह केसरंमि उजाणे, अणगारे तवोधणे । सज्झायज्झाणसंजुत्ते, धम्मज्जाणं झियायइ ।।४।। व्याख्या - अथानन्तरं केसरोद्याने अनगारस्तपोधनः स्वाध्यायध्यानसंयुक्तो यथावसरंतदासेवनात् अत एव धर्मध्यानं ध्यायति ।।४।। अफोवमंडवंसि, झायइ झविआसवे । तस्सागए मिए पासं, वहेइ से नराहिवे ।।५।।
व्याख्या – 'अफोव' इति वृक्षाद्याकीर्णः स चासो मण्डपश्च नागवल्यादिसम्बन्धी अफोवमण्डपस्तस्मिन् ध्यायति धर्मध्यानमिति शेषः, Toll पुनरस्याभिधानमतिशयद्योतकं, 'झविअत्ति' क्षपिता आश्रवा हिंसादयो येन स तथा, तस्य मुनेरागतान् मृगान् पार्श्व समीपं 'वहेइत्ति' हन्ति । ॥ स नराधिपः इति सूत्रद्वयार्थः ।।५।।
अह आसगओ राया, खिप्पमागम्म सो तहिं । हए मिए उ पासित्ता, अणगारं तत्थ पासई ।।६।।
व्याख्या - अथानन्तरमश्वगतो राजा क्षिप्रमागम्य स तस्मिन् मण्डपे हतान् 'मिए उत्ति' मृगानेव न पुनर्मुनिमित्यर्थः, दृष्ट्वा अनगारं तत्र पश्यति MI इति सूत्रार्थः ।।६।। ततोऽसौ किं ? चकारेत्याह -
६७६
foll
liall Isil
liel foll
For Personal Private Use Only
www.jainelibrary.org