________________
उत्तराध्ययन
सूत्रम्
६७२
ZOOLOODOOT
ससरक्खपाओ सुअइ, सिज्जं न पडिलेहइ । संथारए अणाउत्ते, पावसमणेत्ति वुइ ।। १४ ।।
व्याख्या - सरजस्कपादः स्वपिति कोऽर्थः ? संयमविराधनाभीरुताया अभावात् पादावप्रमृज्यैव शेते, शय्यां वसतिं न प्रतिलेखयति न ॥७॥ प्रमार्जयति, संस्तारके कम्बलादौ सुप्त इति शेषः, अनायुक्तः "कुक्कुडिपायपसारण" इत्याद्यागमार्थानुपयुक्तः ।। १४ ।। अथ तपोविषयं ॥७॥
||७|| पापश्रमणमाह -
॥७॥
दुद्धदही विगईओ, आहारेइ अभिक्खणं । अरए अ तवो कम्मे, पावसमणेत्ति वुइ ।। १५ ।।
व्याख्या - 'दुद्धदहित्ति' दधिदुग्धे विकृतिहेतुत्वाद्विकृती, उपलक्षणञ्चैतद् घृताद्यशेषविकृतीनां, आहारयति अभीक्ष्णं वारं वारं तथाविधकारणं विनापीति भाव:, अत एवारतश्च तपःकर्मणि अनशनादौ ।। १५ ।।
अत्थंतंमि अ सूरंमि, आहारेइ अभिक्खणं । चोइओ पडिचोएइ, पावसमणेत्ति वुच ।। १६ ।।
व्याख्या - अस्तमयति चः पूरणे सूर्ये आहारयत्यभीक्ष्णं प्रतिदिनमित्यर्थः, यदि चायं केनचिद्गीतार्थेन प्रेर्यते यथाऽऽयुष्मन् ? किमेवमाहारतत्पर एव तिष्ठसि ? दुर्लभा खल्वियं धर्मसामग्री ! ताञ्च प्राप्य तपस्युद्यन्तुमुचितमिति, ततः किमित्याह-चोदितः प्रेरित प्रतिचोदयति, यथा दक्षस्त्वमुपदेशं दातुं न तु स्वयं विधातुं ! नो चेदेवं विदन्नपि किं न विकृष्टं तपोऽनुतिष्ठसीति ।। १६ । ।
॥७॥
Jain Education Intional
STATE OT
For Personal & Private Use Only
LETTE
पायश्रमणीय
नाम
सप्तदशमध्ययनम्
६७२
www.jainelibrary.org