________________
उत्तराध्ययन
सूत्रम् ६७१
पायश्रमणीय
नाम
सप्तदश
lel Jell Isll lall
मध्ययनम्
||Gl
॥ नित्यं, अयं भावः-प्रतिलेखनादौ वितथं कुर्वन् गुरुभिर्नादितस्तानेव वक्ति यथा स्वयमेवेदं कुरुत युष्माभिरेव वा वयमेवं शिक्षिताः ततो का युष्माकमेवासो दोष इत्यादि ।।१०।।
बहुमायी पमुहरी, थद्धे लुद्धे अणिग्गहे । असंविभागी अचिअत्ते, पावसमणेत्ति वुञ्चइ ।।११।।
व्याख्या - बहुमायी प्रभूतवञ्चनाप्रयोगवान्, प्रमुखरः प्रकर्षेण मुखरोऽसम्बद्धः, स्तब्धो लुब्धः, अनिग्रहः अविद्यमानेन्द्रियमनोनिग्रहः, असंविभागी कुक्षिम्भरित्वेन गुरुग्लानादीनां योग्यमशनादि न यच्छति, 'अचिअत्तेत्ति' गुर्वादिष्वपि अप्रीतिमान् ।।११।।
विवायं च उदीरेइ, अधम्मे अत्तपण्णहा । वुग्गहे कलहे रत्ते, पावसमणेत्ति वुञ्चइ ।।१२।।
व्याख्या - विवादं वाक्कलह, चः पूरणे, उदीरयति उपशान्तमपि मर्मभाषणादिना वर्द्धयति, अधर्मो निर्धर्मः, आप्तां सद्बोधरूपतया ॥ इहपरलोकयोहितां प्रज्ञामात्मनोऽन्येषाञ्च सुबुद्धिं कुतर्कव्याकुलीकरणेन हन्ति यः स आप्तप्रज्ञाहा, व्युद्ग्रहे दण्डादिघातजनिते विरोधे, कलहे वाचिके विरोधे, रक्तः सक्तः ।।१२।।
अथिरासणे कुक्कुइए, जत्थतत्थ निसीअइ । आसणंमि अणाउत्ते, पावसमणेत्ति वुञ्चइ ।।१३।।
व्याख्या - अस्थिरासनः, कुक्कुचो हास्यविकथादिचापल्यवान्, यत्र तत्र संसक्तसरजस्कादावपीत्यर्थः, निषीदति पीठादी, अत ॥ एवाऽऽसनेनायुक्तोऽनुपयुक्तः ।।१३।।
||all || ||
lel
lloll lioll
llell
६७१
For Personal Private Use Only