SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् २९ ॥६॥ ॥९६॥ ************SSSSSSSSS Jain Education International तं दष्ट्वाऽमर्षणो यूथ-नाथस्तं प्रत्यधावत । वृद्धं निहत्य तं यूथ-स्वामी सेचनकोऽभवत् ।। १२ ।। अन्यापि काचित्करिणी, कलभं रक्षितुं निजम् । उपायं मम मातेव, माकार्षीदितिचिन्तयन् ।। १३ ।। कृतघ्नः स गजोऽभाङ्क्षी न्मक्षु तं तापसाश्रमम् । भञ्जन्ति स्वाश्रयं दन्ता-बलाः प्रायः खला इव ।। १४ ।। (युग्मम् ) अस्माभिः पोषितेनाऽपि, द्विपेनाऽनेन हा ! वयम् । उपद्रुतास्तत्किमपि, दर्शयामोऽस्य तत्फलम् ।। १५ ।। ध्यात्वेति तापसाः कोपाद् गत्वा श्रेणिकभूभृते । पुष्पादिप्राभृतभृतो, विज्ञा व्यज्ञपयन्निदम् ।। १६ ।। (युग्मम्) प्रभो ! सेचनकाह्वानः, सर्वलक्षणलक्षितः । भद्रजातिर्वनेऽस्माकं विद्यते गन्धसिन्धुरः ।। १७ । । पृथिव्यां रत्नभूतोऽयं, तवैवाऽर्हति भूपते ! । श्रुत्वेति सैन्ययुक् राजा, तं ग्रहीतुमगाद्वनम् ।। १८ ।। उपायैर्भूरिभिर्भूप-स्तं गृहीत्वाथ दन्तिनम् । आनीय स्वपुरेऽबध्ना दालाने शृङ्खलागणैः ।। १९ ।। ततः स्वीयवशायूथ-वियोगातुरचेतसम् । अरुन्तुदैर्वचोभिस्तं, निनिन्दुरिति तापसाः ।। २० ।। रे कृतघ्न ! क्व ? तद्वीर्यं, शौण्डीर्यं चाधुना तव । फलमस्मदवज्ञाया, इदमाजन्म भुज्यताम् ! ।। २१ ।। निशम्येति क्षतक्षार-क्षेपकल्पां स तद्गिरम् । रोषादालानमुन्मुल्य, दधावे प्रति तापसान् ।। २२ ।। हतप्रतिहतान् कुर्व- स्तांश्चारण्यं गतो गजः । तान् बभञ्जाश्रमान् भूयः प्रभञ्जन इव द्रुमान् ।। २३ ।। पुनस्तद्ग्रहणायाऽगा-तद्वनं श्रेणिको नृपः । तदेत्यऽवधिनाऽज्ञासीद् गजाधिष्टायिका सुरी ।। २४ ।। For Personal & Private Use Only 222221 DOO DOWN विनयनाम प्रथम मध्ययनम् २९ www.jninelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy