SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् विनयनाम प्रथममध्ययनम् २८ Isl llel ||Gl ||७|| 6 पञ्चाश्रवविरमणादिना, तपसा चानशनादिना, मा अहं परैरन्यैः ‘दम्मंतोत्ति' आर्षत्वाद्दमितः खेदितः कैरित्याह-बन्धनैधादिरचितैर्मयूरबन्धाद्यैः वधैश्च foll लकुटादिताडनैः ।। उदाहरणं चात्र सेचनकहस्ती तथााटव्यामेकस्यां, हस्तियूथमभून्महत् । तत्स्वामी च बभूवैकः, सिन्धुरो भूधरोपमः ।।१।। प्रवृद्धः कलभः कोऽपि, माहन्मामिति चिन्तयन् । बालद्विपान् जातमात्रा-नवधीत्स तु दुष्टधीः ।।२।। ततः सगर्भा करिणी, तस्य काचिदचिन्तयत् । भविता कलभश्चेन्मे, तं हनिष्यति यूथपः ।।३।। तस्मात्तद्रक्षणोपाय, करोमीति विमृश्य सा । खञ्जायमाना दम्भेन, शनैर्वृथादपासरत् ।। ४ ।। प्रतीक्षमाणं यूथेशं घटीप्रहरवासरैः । द्वित्रैमिलन्ती सा तस्य, विस्रम्भं चोदपादयत् ।।५।। प्रसूतिकाले त्वासने-ऽपश्यत्सा कञ्चिदाश्रमम् । सुषुवे च तमाश्रित्य, विश्वस्ता कलभं शुभम् ।।६।। यूथे गत्वाऽथ यूथेशं, वञ्चयित्वा च सा मुहुः । तमाश्रमं समागत्य, स्वनन्दनमदीधयत् ।।७।। मुग्धत्वमधुराकार, कलभं मुनयोऽपि तम् । सलील लालयामासुः, स्वपुत्रमिव वत्सलाः ।।८।। शुण्डामापूर्य सलिलैः, सकलः कलभोऽपि सः । सहर्षिपुत्रकैः सेकं, चकाराश्रमभूरुहान् ।।९।। तं सेचनकनामानं, तापसाः प्रोचिरे ततः । क्रमाञ्च यौवनं प्राप्तः, सोऽभूत्प्राज्यपराक्रमः ।।१०।। अटन्नटव्यां तयूथं, द्विपः सोऽपश्यदन्यदा । अरीरमञ्च संञ्जाता-नुरागास्तत्करेणुकाः ।।११।। ||Gll || || ||sll ||oll ||७|| fall foll २८ || Ilall Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy